SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । प्रादीनामवर्णस्य ऋणे परे ऋता सह आर् स्यात् । प्रार्णम्, दशार्णम्, ऋणार्णम् वसनार्णम्, कम्बलार्णम्, वत्सरार्णम्, वत्सतरार्णम् ॥७॥ ऋते तृतीयासमासे |१| २३८॥ अवर्णस्य ऋते परे तृतीयासमासे ऋता सह आर् स्यात् । शीतार्त्तः । तृतीयासमास इति किम् ? परमर्त्तः दुःखेनर्त्तः ||८|| ऋत्यारुपसर्गस्य । १।२॥९॥ उपसर्गस्थस्यावर्णस्य ऋकारादौ धातौ परे ऋता सह आर् स्यात् । प्रार्च्छति परार्च्छति ॥९॥ , " नाम्नि वा | १|२| १०॥ उपसर्गस्थस्यावर्णस्य ऋकारादौ नामावयवे धातौ परे ऋता सह आर् वा स्यात् । प्रार्षभीयति, प्रर्षभीयति ॥ १०॥ " ऌत्याल् वा । १।२।११॥ उपसर्गस्थस्यावर्णस्य ऌकारादौ नामावयवे धातौ परे लता सह आलू वा स्यात् । उपाल्कारीयति, उपल्कारीयति ||११|| ऐदौत् सन्ध्यक्षरैः | १|२|१२|| अवर्णस्य सन्ध्यक्षरैः परैः सह ऐ औ इत्येतौ स्याताम् । तवैषा तवैन्द्री, सैन्द्री, तवौदनः तवौपगवः ||१२|| ऊटा | १|२|१३॥ ↑ " Jain Education International , अवर्णस्य परेण ऊटा सह औ: स्यात् । धौतः, धौतवान् ॥ १३ ॥ प्रस्यैषैष्योढोढ्यूहे स्वरेण | १| २|१४|| प्रावर्णस्य एषादिषु परेषु परेण स्वरेण सह ऐ औ स्याताम् । प्रैषः, प्रैष्यः प्रौढ : प्रौढिः प्रौहः || १४ || " 1 स्वैर - स्वैर्यक्षौहिण्याम् | १|२| १५ || स्वैरादिष्ववर्णस्य परेण स्वरेण सह ऐ औ स्याताम् । स्वैरः, स्वैरी, अक्षौहिणी । १५ ।। खट्वैषा १. उपसर्गावर्णस्य खं१, २, ३ । उपसर्गस्यावर्णस्य पा२, ३ । २. उपल्कारीयति उपाल्कारयति पा१ ॥। ३. अक्षौहिणी सेना खं१ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy