________________
स्वोपज्ञलघुवृत्तिविभूषितं
[द्वितीय: पादः ]
समानानां तेन दीर्घः ॥१२॥१॥ समानानां तेन समानेन परेण सह दीर्घः स्यात् । दण्डाग्रम् , दधीदम् , नदीन्द्रः ।।१।।
__ ऋलति ह्रस्वो वा ।।२।२॥ ऋति लति च परे समानानां ह्रस्वो वा स्यात् । बालऋश्य: , क्लऋषभः , होतृलकारः । पक्षे बालीः इत्यादि ।।२।।
लत (ल्ल ऋलभ्यां वा ।।२।३॥ लत ऋता लता च सह यथासंख्यं टू-ल्ल इत्येतौ वा स्याताम् । ऋता कृकार: , पक्षे क्लत्रकारः , कृकारः । लता-क्लूकार: , पक्षे क्लृकार: , क्ललकार: , ||३||
ऋतो वा , तौ च ।।२।४॥ ऋत ऋलभ्यां सह यथासंख्यं टू-ल्लु इत्येतौ वा स्याताम् , तौ च ऋकारलकारौ ऋलभ्यां सह वा स्याताम् । ता-
पिषभः , पक्षे पितॄषभः , पितृऋषभ: । लता-होत्लकारः , पक्षे होतृलकारः , होतृकारः । तौ च-पितृषभः , होत्लकार: , पक्षे पूर्ववत् ।।४।।
ऋस्तयोः ।।२।॥ तयो: पूर्वस्थानिनोर्लकार-ऋकारयोर्यथासंख्यम् ऋलभ्यां सह 'ऋ' इति दीर्घः स्यात् । ऋषभः , होतृकारः ।।५।।
अवर्णस्येवर्णादिनैदोदरल् ।१।२।६॥ अवर्णस्य इ-उ-ऋ-लवर्णैः सह यथासंख्यम् एत् ओत् अर् अल् इत्येते स्युः । देवेन्द्रः , तवेहा , मालेयम् , सेक्षते , तवोदकम् , तवोढा , गङ्गोदकम् , सोढा , तवर्षिः , तवारः , महर्षिः , सर्कारः , तवल्कार: , सल्कारेण ॥६॥
ऋणे प्र-दशार्ण-वसन कम्बल-वत्सर-वत्सतरस्याऽऽर् ।१२।७॥ १. ऋता जे३ विना नास्ति ।। २. पक्षे क्ललकारः क्लृकारः खं१,२ पा१ J3 || ३. ऋता J3 विना नास्ति ।। ४. ए ओ अर्J3 विना सर्वत्र ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org