________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
अवर्गात् स्वरे वोऽसन् ।॥२॥४०॥ वर्जवर्गेभ्यः परः उञ् स्वरे परे वो वा स्यात् , स चाऽसन् । क्रुङ्खास्ते । क्रुडु आस्ते । असत्त्वाद् द्वित्वम् ।।४।।
अ-इ-उ-वर्णस्यान्तेऽनुनासिकोऽनीदादेः ।।२।४१॥ अ-इ-उ-वर्णानामन्ते विरामे अनुनासिको वा स्यात् , न चेदेते ईदूदेद् द्विवचनम् [१।२।३४] इत्यादिसूत्रसम्बन्धिनः स्युः । सामँ , साम । खट्वाँ , खट्वा । दधैिं , दधि । कुमारी, कुमारी । मधु , मधु । अनीदादेरिति किम् ? अग्नी , अमी , किमु ॥४१॥
[ईत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ।१।२।।
पूर्वभवदारगोपीहरणस्मरणादिव ज्वलितमन्युः । श्रीमूलराजपुरुषोत्तमोऽवधीद् दुर्मदाऽऽभीरान् ।।२।।
१. [ ] प्रथमपादानुसारेण परिपूरितोऽयं पाठोऽस्माभिः । एवमग्रेऽपि सर्वत्र बोध्यम् ॥ २. समाप्तः पा१,२ J3 विना नास्ति ।। ३. श्लोकोऽयं पा१, प्रा०, बृहद्वृत्तौ च धर्तत ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org