SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं क्षिया - ssशीः - प्रेषे | ७|४|९२॥ क्षिया आचारभ्रेष:, [ आंशी: प्रार्थनाविशेषः ; प्रैषोऽसत्कारपूर्विका व्यापारणा ] | एतद्वत्तेर्वाक्यस्य स्वरेष्वन्त्यः स्वरः, त्याद्यन्तस्य वाक्यान्तराकाङ्गस्यांश: प्लुतो वा स्यात् । स्वयं ह रथेन याति ३ याति वा, उपाध्यायं पदातिं गमयति । सिद्धान्तमध्येषीष्ठाः ३ अध्येषीष्ठा वा तर्कं च तात ! | कटं च कुरु ३ कुरुवा, ग्रामं च गच्छ ॥९२॥ , ४४४ चितीवार्थे |७|४|९३॥ सादृश्यार्थे चिति प्रयुक्ते वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अग्निश्चिद्भाया ३ त् ; भायाद् वा । इवार्थे इति किम् ? कर्णवेष्टकांश्चित्कारय ॥९३॥ प्रतिश्रवण- निगृह्यानुयोगे | ७|४|९४ ॥ एतद्वृत्तेर्वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । गां मे देहि भोः ! हन्त ते ददामि ३, ददामि वा । अद्य श्राद्धमित्यात्थ ३, आत्थ वा ॥९४|| विचारे पूर्वस्य | ७|४|९५॥ विचारः संशयः, तद्विषये संशय्यमानस्य यत् पूर्वं तस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अहिर्नु ३ नु वा रज्जुर्नु || ९५ ॥ ओमः प्रारम्भे |७|४|९६॥ ओमः प्रणामाद्यभ्यादानार्थस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । ओ ३ म्, ओम् वा, ऋषभमृषभगामिनं प्रणमत || ९६ || हे: प्रश्नाख्याने |७|४|९७॥ " पृष्टप्रतिवचनार्थं वाक्यस्य हे: स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अकार्षीः कटं मैत्र ? अकार्षं हि ३, हि वा ॥ ९७ ॥ प्रश्ने च प्रतिपदम् ॥७४॥९८॥ प्रश्नार्थस्य प्रश्नाख्यानार्थस्य च वाक्यस्य यत् पदं तस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अगम: ३ पूर्वा ३ न् ग्रामा ३ न् मैत्र ३१, अगमः पूर्वान् ग्रामान् मैत्र ? ; अगम ३ म् पूर्वा ३ न् ग्रामा ३ न् मैत्र ३ ! अगमं , १. [ ] बृहद्वृत्तावेवायं पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy