________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
पूर्वान् ग्रामान् मैत्र ! ।।९८॥
___ दूरादामन्त्रयस्य गुरुर्वैकोऽनन्त्योऽपि लनृत् ।१४।९९॥
वाक्यस्य य: स्वरेष्वन्त्यस्वरो दूरादामन्त्रयार्थपदस्थो गुरुर्वाऽनन्त्योऽपि ऋद्वर्जस्वरलकारश्चैकोऽसौ प्लुतो वा स्यात् । आगच्छ भो देवदत्त ३ ! , देवदत्त ! वा ; सक्तून् पिब दे३वदत्त , देवदत्त , देवदत्त वा ; आगच्छ भो कृ३प्तशिख , कृप्तशिख वा । अनृदिति किम् ? कृष्णमित्र ! , कृष्णमित्र !॥९९।।
हे-हैष्वेषामेव ॥७॥४॥१०॥ दूरादामन्त्रयस्य यौ हे-हैशब्दौ तयोः प्रयुक्तयोरेव वाक्ये यत्र तत्रस्थयोरन्त्यः स्वर: प्लुतो वा स्यात् । हे३ मैत्र ! आगच्छ , आगच्छ हे३ मैत्र ! , आगच्छ मैत्र हे ३ ! ; है३ मैत्राऽऽगच्छ , आगच्छ है३ मैत्र ! , आगच्छ मैत्र है ३ ! ॥१००॥
अस्त्री-शूद्रे प्रत्यभिवादे भो-गोत्र-नाम्नो वा ।४१०१॥ यदभिवादितो गुरुः कुशलानुयोगादिमद्वाक्यं प्रयुङ्क्ते तत्राऽस्त्रीशूद्रविषये वर्त्तमानस्य वाक्यस्य स्वरेष्वन्त्यस्वरो भोसो गोत्रस्य नाम्नो वाऽऽमन्त्रयस्यांश: प्लुतो वा स्यात् । अभिवादये मैत्रोऽहं भो: ! , आयुष्यमानेधि भो: ३ ! भो ! वा | अभिवादये गार्योऽहं भो: ! , कुशल्यसि गार्ग्य ३ ! गार्ग्य ! वा । अभिवादये मैत्रोऽहं भो: ! , आयुष्मन्नेधि मैत्र ३ ! मैत्र वा । स्त्री-शूद्रवर्जनं किम् ? अभिवादये गार्म्यहं भोः ! , आयुष्यमती त्वं भव गार्गि ! ; अभिवादये तुषजकोऽहं भोः ! , कुशल्यसि तुषजक ! ॥१०१॥ प्रश्ना-ऽर्चा-विचारे च सन्धेयसन्ध्यक्षरस्याऽऽदिदुत्परः ।७।४।१०२॥
एषु प्रत्यभिवादे च वर्त्तमानस्य वाक्यस्य स्वरेष्वन्त्य: स्वर: सन्धियोग्यसन्ध्यक्षरान्तस्य प्लुतो भवन् आ इदुत्पर: स्यात्। अगम:३ पूर्वा३न् ग्रामाश्न् अग्निभूता३ इ ! , पटा३उ ! ? ; अर्चा-शोभन: खल्वसि अग्निभूता३इ ! , पटा३उ ! ; विचार-वस्तव्यं किं निर्ग्रन्थस्य सागारिका३इ , उताऽनागारिके ?; प्रत्यभिवाद-आयुष्मानेधि अग्निभूता३इ ! । सन्धेयेति किम् ? कच्चि३त् कुशल३म् भवत्यो:३ कन्ये३? ।।१०२।। १. वादे P3 विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org