________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
आबाधे |७|४|८५ |
मन:पीडाविषये शब्दो द्विः स्यात्, आदौ स्यादेश्च प्लुप् । ऋक् ऋक् ॥ ८५ ॥ नवा गुणः सदृशे रित् |७|४|८६ ॥
गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्त्तमानो द्विर्वा स्यात्, आदौ स्यादेः प्लुप् च, सा च रित् । शुक्लशुक्लं रूपम्, कालककालिका, पक्षे शुक्लजातीयः
||८६||
प्रिय सुखं चाकृच्छ्रे |७|४८७॥
एतावक्लेशार्थौ वा द्विः स्याताम्, आदौ स्यादेश्च प्लुप् । प्रियप्रियेण प्रियेण वा दत्ते ; सुखसुखेन सुखेन वाऽधीते ॥ ८७॥ वाक्यस्य परिवर्जने | ७|४|८८ ||
|७|४|८९||
४४३
,
,
वर्जनार्थो वाक्यांश: परिर्वा द्विः स्यात् । परि परि परि वा त्रिगर्तेभ्यो वृष्टो मेघः । वाक्यस्येति किम् ? परित्रिगर्त्तं वृष्टो मेघः ||८८|| सम्मत्यसूया-कोप-कुत्सनेष्वाद्यामन्त्र्यमादौ स्वरेष्वन्त्यश्च प्लुतः
I
,
एतद्वृत्तेर्वाक्यस्यादिभूतमामन्त्र्यार्थं पदं द्विः स्यात् द्वित्वे चादौ स्वराणां मध्येऽन्त्यस्वरः प्लुतो वा स्यात् । माणवक३ माणवक ! माणवक माणवक ! आर्यः खल्वसि ; रिक्तं ते आभिरूप्यम् इदानीं ज्ञास्यसि जाल्म ! रिक्ता
"
7
शक्तिरिति वा । आदीति किम् ? भव्यः खल्वसि माणवक ! || ८९ || भर्त्सने पर्यायेण | ७|४|९०॥
कोपेन दण्डाविष्क्रिया भर्त्सनम्, एतद्वृत्तेर्वाक्यस्य यदामत्रयं पदं तद् द्विः स्यात्, द्वित्वे च क्रमेण पूर्वोत्तरपदयोः स्वरेष्वन्त्यः प्लुतो वा स्यात् । चौर ३ चौर !, चौर चौर ३ !, चौर चौर ! घातयिष्यामि त्वाम् ||९०|| त्यादेः साकाङ्गस्याङ्गेन | ७|४|११||
Jain Education International
भर्त्सनाऽर्थस्य वाक्यस्य स्वरेष्वन्त्यः स्वरः, त्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य अङ्गेन युक्तस्यांशः प्लुतो वा स्यात् । अङ्ग ! कूज ३ अङ्ग ! कूज इदानीं ज्ञास्यसि जाल्म ! | साकाङ्क्षस्येति किम् ? अङ्ग ! पच ॥ ९१||
"
"
१. स्यादेः प्लुप् च P3 | स्यादेश्व प्लुप् च J2 ||
For Private & Personal Use Only
www.jainelibrary.org