SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४४२ स्वोपज्ञलघुवृत्तिविभूषितं एतद्वृत्ति द्वि: स्यात् । नमो नमः , मूले मूले स्थूला: ॥७५।। डतर-डतमौ समानां स्त्रीभावप्रश्ने।७४।७६॥ केनचिद् गुणेन तुल्यानां स्त्रीलिङ्गभावस्य प्रश्ने वर्तमानो डतरडतमान्तो द्वि: स्यात् । उमाविमावाढ्यौ , कतरा कतरा कतमा कतमा वा अनयोराढ्यता ? । भावेति किम् ? उभाविमौ लक्ष्मीवन्तौ कतराऽनयोर्लक्ष्मी: ? ।।७६।। पूर्व-प्रथमावन्यतोऽतिशये ।१४।७७॥ एतौ स्वार्थस्यान्यत: प्रकर्षे द्योत्ये द्विः स्याताम् । पूर्वं पूर्वं पुष्पन्ति , प्रथम प्रथमं पच्यन्ते ॥७७|| प्रोपोत्-सम् पादपूरणे।७।४।७८॥ एते द्विः स्युश्चेत् पाद: पूर्यः । प्रप्रशान्तकषायाग्नेरुपोपप्लववर्जितम् । उदुज्जवलं तपो यस्य , संसंश्रयत तं जिनम् ॥११॥७८॥ __सामीप्येऽधोऽध्युपरि ७॥४७९॥ एते सामीप्येऽर्थे द्विः स्युः । अधोऽधः , अध्यधि , उपर्युपरि ग्रामम् ।।७९।। वीप्सायाम् ।।४।८०॥ अस्यां वर्तमानं द्वि: स्यात् । वृक्षं वृक्षं सिञ्चति , ग्रामो ग्रामो रम्यः ।।८०॥ प्लुप् चादावेकस्य स्यादेः १७।४।८१॥ । एकस्य वीप्सायां द्वयुक्तस्याद्यस्य स्यादेः पिल्लुप् स्यात् । एकैकस्याः ।।८१।। द्वन्द्वं वा ।।४।८२॥ वीप्साद्व्युक्तस्य द्वेरादेः स्यादेर्लुप् स्यात् , एश्चाऽम् , उत्तरत्रेतोऽत्वं स्यादेश्वाऽम् वा निपात्य: । द्वन्द्वं द्वौ द्वौ वा तिष्ठतः ।।८२।। रहस्य-मर्यादोक्ति-व्युत्क्रान्ति-यज्ञपात्रप्रयोगे ।।४।८३॥ एषु गम्येषु द्वेर्विचनं शेषं च पूर्ववन्निपात्यम् । द्वन्द्वं मन्त्रयन्ते , पशवो द्वन्द्वं मिथुनायन्ते , द्वन्द्वं व्युत्क्रान्ता: , द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ॥८३।। लोकज्ञातेऽत्यन्तसाहचर्ये ।।४।८४॥ अत्र द्योत्ये द्वेः पूर्ववत् द्वन्द्वमिति निपात्यम् । द्वन्द्वं रामलक्ष्मणौ ॥८४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy