________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
४४१
विंशतेस्तेर्डिति ।।४।६७॥ अस्यापदस्य तेर्डिति तद्धिते लुक् स्यात् । विंशक: पटः ॥६७||
अवर्णेवर्णस्य ।७।४।६८॥ एतदन्तस्यापदस्य तद्धिते लुक् स्यात् । दाक्षिः , चौडि: , नाभेयः , दौलेय: । अपदस्येति किम् ? ऊर्णायु: ।।६८।।
__ अकद्रू-पाण्ड्वोरुवर्णस्यैये ।७।४।६९॥ एतद्व|वर्णान्तस्य एये तद्धिते लुक् स्यात् । जाम्बेय: । कवादिवर्जनं किम् ? काद्रवेय: , पाण्डवेयः ॥६९।।
अस्वयम्भुवोऽव् ।७।४।७०॥ स्वयंभूवोंवर्णान्तस्यापदस्य तद्धितेऽव् स्यात् । औपगव: । अस्वयम्भुव इति किम् ? स्वायम्भुवः ।।७०||
ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक् ।।४।७१॥
त्रावर्णोवर्णान्ताभ्यां दोसिसुसन्ताभ्यां शश्वदकरमावर्जतन्ताच परस्येकस्थस्येतो लुक् स्यात् । मातृकम् , नैषादकर्षक: , दौष्कः , सार्पिष्क: , धानुष्क: , औदश्वित्कः । शश्वदकस्माद्वर्जनं किम् ? शाश्वतिकम् , आकस्मिकम् ।।७१।।
असकृत् संभ्रमे ७॥४॥७२॥ भयादिभिः प्रयोक्तुस्त्वरणे द्योत्ये पदं वाक्यं वाऽसकृत् प्रयोज्यम् । अहिरहिरहि: , हस्त्यागच्छति हस्त्यागच्छति , लघु पलायध्वं लघु पलायध्वम् ।।७२।।
भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादेः ।।४।७३॥ क्रियाया अवयवक्रियाणां कात्स्न्यं भृशार्थः , पौन:पुन्यमाभीक्ष्ण्यम् , क्रियान्तराव्यवधानमविच्छेदः , एषु द्योत्येषु पदं वाक्यं वा तमबादेः प्राग् द्विः स्यात् । लुनीहि लुनीहीत्येवाऽयं लुनाति , भोजं भोजं याति , प्रपचति प्रपचति ।।७३।।
नानावधारणे ।४।७४॥ नानाभूतानामियत्तापरिच्छेदे गम्ये शब्दो द्वि: स्यात् । अस्मात् कार्षापणादिह भवद्भ्यां माषं माषं देहि ।।७४।।
आधिक्या-ऽऽनुपूर्ये ।।४।७५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org