________________
४४०
स्वोपज्ञलघुवृत्तिविभूषितं
कलापि-कुथुमि-तैतलि-जाजलि-लाङ्गलि-शिखण्डि-शिलालिसब्रह्मचारि-पीठसर्पि-सूकरसम-सुपर्वणः ।।४।६२॥
एषामपदानां तद्धितेऽन्त्यस्वरादेर्लुक् स्यात् । कालापा: , कौथुमाः , तैतला: , जाजला: , लाङ्गला: , शैखण्डा: , शैलाला: , साब्रह्मचाराः , पैठसर्पाः , सौकरसद्मा: , सौपर्वाः ।।६२॥
वाऽश्मनो विकारे ।१४।६३॥ अस्यापदस्य विकारार्थे तद्धितेऽन्त्यस्वरादेर्लुग् वा स्यात् । आश्मः , आश्मनः ॥६३॥
चर्म-शुनः कोश-सङ्कोचे ।७।४।६४॥ अनयोरपदयोर्यथासंख्यं कोशे सङ्कोचे चार्थे तद्धितेऽन्त्यस्वरादेर्लुक् स्यात् । चार्म: कोश: , शौव: सङ्कोचः ॥६४।।
प्रायोऽव्ययस्य ।॥४॥६५॥ अपदस्यास्य तद्धितेऽन्त्यस्वरादेः प्रायो लुक् स्यात् । सौवः । प्रायः किम् ? आरातीयः ॥६५।।
अनीना-ऽट्यह्नोऽतः ७४॥६६॥ ईना-ऽड्वर्जे तद्धितेऽपदस्याऽहोऽतो लुक् स्यात् । आह्नम् । अनीनाटीति किम् ? ढुंचहीनः , प्रत्यहम् , व्यहः ॥६६।।
१. अनीनादटय J2सं० पा२ । “ईनश्च अश्च अट् च ईनाट्, न ईनाट्' इति P3 मध्ये टिप्पनम् ।“ ईनश्च अच्च अट् च ईनाट्, न तत्, तस्मिन् । अथवा ईनश्च अश्च अट् च ईनाट्, न ईनाट् अनीनाट्, तस्मिन् । तदा अनीनाट्यहोऽतः इति सूत्रम्” इति पा२ मध्ये टिप्पनं वर्तते ।
अत्रेदमवधेयम्- 'अनीनाट्यहोऽतः' इत्येव सूत्रं प्रागासीत्, तदनुसारेणैव च वृत्तिरपि आसीत् । किन्तु अस्य दुर्गमत्वं विभाव्य केनचित् संशोधकेन 'अनीनादट्यहोऽत:' इति संशोधित: पाठो विहितः, अत: सम्प्रति तस्यैव प्रवृत्तिदृश्यते । किन्तु अनीनाट्यहोऽतः इत्येव मौल: पाठः ।। २.ईनादड्वर्जे J2सं० ।। ३.अनीनादटीति J2सं० पा२ ।। ४.अत्र प्रतिषु ईदृशा:- पाठा: व्यहीनः, व्यहः P3मू० । व्यहीनः प्रत्यहं व्यहः P3सं० । व्यहीनः पार, व्यहीनः , अति अन्वहं प्रत्यहं पासं२ । द्वयहीनः J2, व्यहीनः प्रत्यहं व्यहं J2सं० । द्वयहीनः त्वह यह J1 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org