________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
४३९
अणि ।।४।५२॥ अन्नन्तस्याऽणि अन्त्यस्वरादेलुंग न स्यात् । सौत्वनः ।।५२।।
संयोगादिनः ।।४।५३॥ संयोगात् परो य इन् , तदन्तस्याऽण्यन्त्यस्वरादेर्लुग् न स्यात् । शाङ्खिन:
॥५३॥
गाथि-विदथि-केशि-पणि-गणिनः ॥४॥५४॥ एषामण्यन्त्यस्वरादे ग न स्यात् । गाथिन: , वैदथिन: , कैशिन: , पाणिन: , गाणिनः पुत्रः ।।५४||
__ अनपत्ये ॥४॥५५॥ इन्नन्तस्यानपत्यार्थेऽण्यन्त्यस्वरादेलुंग न स्यात् । सांराविणम् ।।५५||
उक्ष्णो लुक् ।७४।५६॥ उक्ष्णोऽनपत्येऽण्यन्त्यस्वरादेर्लुक् स्यात् । औक्षं पदम्। अनपत्य इत्येव-औक्षण:
॥५६।।
ब्रह्मणः ।७४।५७॥ अस्यानपत्येऽण्यन्त्यस्वरादेर्लुक् स्यात् । ब्राह्ममस्त्रम् ।।५७||
जातौ ।७।४।५८॥ ब्रह्मणो जातावर्थेऽनपत्येऽण्यन्त्यस्वरादेर्लुक् स्यात् । ब्राह्मी औषधिः । अपत्ये तु ब्राह्मण: । जाताविति किम् ? ब्राह्मो नारदः ||५८||
अवर्मणो मनोऽपत्ये ।७।४।५९॥ वर्मन्वर्जमन्नन्तस्यापत्यार्थेऽण्यन्त्यस्वरादेर्लुक् स्यात् । सौषाम: । अवर्मण इति किम् ? चाक्रवर्मणः ।।५९||
हितनाम्नो वा ।७।४।६०॥ अस्यापत्यार्थेऽण्यन्त्यस्वरादेर्लुग् वा स्यात् । हैतनाम: , हैतनामनः ||६०।।
नोऽपदस्य तद्धिते ।।४।६१॥ नन्तस्यापदस्य तद्धिते. परेऽन्त्यस्वरादे क् स्यात् । मैधाव: । अपदस्येति किम् ? मेधाविरूप्यम् ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org