________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
प्राग्ग्रामार्थानां णिति तद्धिते स्वरेष्वादे: स्वरस्य वृद्धि: स्यात् । पूर्वकार्णमृत्तिक: , पूर्वकान्यकुलः ॥१७॥
संख्या-ऽधिकाभ्यां वर्षस्याऽभाविनि ।७४।१८॥ संख्यार्थादधिकाच्च परस्य वर्षस्य णिति तद्धिते स्वरेष्वादे: स्वरस्य वृद्धि: स्यात् , न चेत् तद्धितो भाविन्यर्थे । द्विवार्षिक: , अधिकवार्षिक: । अभाविनीति किम् ? द्वैवर्षिकं धान्यम् ।।१८।। ___मान-संवत्सरस्याशाण-कुलिजस्याऽनाम्नि ।७४।१९॥
संख्यार्था-ऽधिकाभ्यां परस्य शाणकुलिजवर्जमानार्थस्य , संवत्सरस्य च णिति तद्धिते स्वरेष्वादे: स्वरस्य वृद्धिः स्यात् , अनाम्नि । द्विकौडविक: , अधिककौडविक: , द्विसांवत्सरिकः । अशाणकुलिजस्येति किम् ? द्वैशाणम् , द्वैकुलिजिकः । अनाम्नीति किम् ? पाञ्चलोहितिकम् ॥१९॥
अर्धात् परिमाणस्याऽनतो वा त्वादेः ।।४।२०॥ अर्धात् परस्य परिमाणार्थस्य स्वरेष्वादेरद्वर्जस्वरस्य णिति तद्धिते वृद्धि: स्यात् , वा त्वर्धस्य । अर्धकौडविकम् , आर्धकौडविकम् । अनत इति किम् ? अर्धप्रस्थिकम् , आर्धप्रस्थिकम् ।।२०||
प्राद् वाहणस्यैये ॥४॥२१॥ प्रात् परस्य वाहणस्य एये णिति तद्धिते स्वरेष्वादेर्वृद्धि: स्यात् , प्रस्य तु वा । प्रवाहणेयः , प्रावाहणेयः ॥२१॥
एयस्य ७४॥२२॥ एयान्तांशात् प्रात् परस्य वाहणस्य णिति तद्धिते स्वरेष्वादेर्वृद्धि: स्यात् , प्रस्य तु वा । प्रवाहणेयिः , प्रावाहणेयि: ।२।।
नञः क्षेत्रज्ञेश्वर-कुशल-चपल-निपुण-शुचेः ।७४॥२३॥ नञः परेषामेषां णिति तद्धिते स्वरेष्वादेर्वृद्धि: स्यात् , नञस्तु वा । अक्षैत्रज्ञम् आक्षेत्रज्ञम् ; अनैश्वरम् , आनैश्वरम् ; अकौशलम् , आकौशलम् ; अचापलम् , आचापलम् ; अनैपुणम् , आनैपुणम् ; अशौचम् , आशौचम् ।।२३।।
जङ्गल-धेनु-वलजस्योत्तरपदस्य तु वा ।७४॥२४॥ एतदुत्तरपदानामादेः पूर्वपदस्य स्वरेष्वादेर्नित्यं वृद्धि: स्यात् , वा तूत्तरपदस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org