SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४३४ स्वोपज्ञलघुवृत्तिविभूषितं न ञ-स्वङ्गादेः ।७४॥९॥ ञान्तस्य स्वङ्गादेश्च णिति तद्धिते स्व: प्रागैदौतौ न स्याताम् । व्यावक्रोशी , स्वाङ्गिः , व्याङ्गिः ।।९।। श्वादेरिति ।१४।१०॥ श्वादिरवयवो यस्य , तस्येदादौ णिति तद्धिते व: प्रागौन स्यात् । श्वाभस्त्रि: । इतीति किम् ? शौवहानम् ।।१०।। इञः ॥४॥११॥ इञन्तस्य श्वादेर्णिति तद्धिते व: प्रागौन्न स्यात् । श्वाभस्त्रम् ।।११।। पदस्यानिति वा ।।४।१२॥ पदशब्दान्तस्य श्वादेरिदादिवर्जे णिति तद्धिते व: प्रागौद् वा स्यात् । श्वापदम् शौवापदम् । अनितीति किम् ? श्वापदिकः ।।१२।। प्रोष्ठ-भद्राज्जाते ।७४।१३॥ आभ्यां परस्य पदस्योत्तरपदस्य स्वरेष्वादे: स्वरस्य जातार्थे णिति तद्धिते वृद्धि: स्यात् । प्रोष्ठपादः , भद्रपादो बटुः ।।१३।। अंशाहतोः ॥४॥१४॥ अंशार्थात् परस्य त्रत्वर्थस्योत्तरपदस्य स्वरेष्वादे: स्वरस्य णिति तद्धिते वृद्धि: स्यात् । पूर्ववार्षिकः । अंशादिति किम् ? सौवर्षिक: ।।१४।। सु-सर्वाऽर्द्धाद् राष्ट्रस्य ।४।१५॥ एभ्य: परस्य राष्ट्रार्थोत्तरपदस्य णिति तद्धिते स्वरेष्वादे: स्वरस्य वृद्धिः स्यात् । सुपाञ्चालकः , सर्वपाञ्चालक: , अर्धपाञ्चालकः ।।१५।। अमद्रस्य दिशः ॥७॥४॥१६॥ दिगर्थात् परस्य मद्रवर्जराष्ट्रार्थस्य णिति तद्धिते स्वरेष्वादे: स्वरस्य वृद्धि: स्यात् । पूर्वपाञ्चालकः । अमद्रस्येति किम् ? पौर्वमद्रः ।।१६।। प्राग्ग्रामाणाम् ।७।४।१७॥ प्राग्देशे ग्रामार्थानां योऽशो दिगर्थस्तत: परस्यांशस्य , दिशः परेषां च १. प्रागौर्न पा२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy