________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
[ चतुर्थः पादः ]
वृद्धिः स्वरेष्वादेर्च्छिति तद्धिते |७|४|१||
ञिति णिति च तद्धिते परे प्रकृतेः स्वराणां मध्ये आद्यस्वरस्य वृद्धिः स्यात्
| दाक्षि:, भार्गवः । तद्धित इति किम् ? चिकीर्षकः || १ ||
,
,
केकय-मित्रयु-प्रलयस्य यादेरिय् च |७|४|२ ||
एषां ञ्णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः, यादेश्चांशस्येय् स्यात् । कैकेयः मैत्रेयिया श्लाघते प्रालेयं हिमम् | २||
"
देविका - शिंशपा - दीर्घसत्र - श्रेयसस्तत्प्राप्तावाः | ७|४|३||
एषां स्वरेष्वादेः स्वरस्य ञ्णिति तद्धिते वृद्धिप्राप्तावा: स्यात् । दाविकं जलम्
शांशपः स्तम्भः, दार्घसत्रम्, श्रायसं द्वादशाङ्गम् । तत्प्राप्ताविति किम् ?
सौदेविकः ||३||
वहीनरस्यैत् |७|४|४|
अस् ति तद्धिते स्वरेष्वादेः स्वरस्यैः स्यात् । वैहीनरिः ||४|| य्वः पदान्तात् प्रागैदौत् |७|४|५||
णिति तद्धिते वर्णोवर्णयोर्वृद्धिप्राप्तौ तयोरेव स्थाने यौ य्वौ पदान्तौ ताभ्यां प्राक् यथासङ्खयमै दौतौ स्याताम् नैयायिकः सौवश्वः । पदान्तादिति किम् ?
इमे याताः ||५||
,
४३३
"
द्वारादेः |७|४|६||
एषां यौ य्वौ तयोः समीपस्य स्वरेष्वादेः स्वरस्य वृद्धिप्राप्तौ ताभ्यामेव प्रागैदौतौ स्यातां णिति तद्धिते । दौवारिकः, सौवरो ग्रन्थः ||६||
न्यग्रोधस्य केवलस्य ||७|४|७||
अस्य केवलस्य यो यः तत्सम्बन्धिनः स्वरेष्वादेः स्वरस्य वृद्धिप्राप्तौ तस्मादेव यः प्रागैत् स्यात् ञ्णिति तद्धिते । नैयग्रोधो दण्डः । केवलस्येति किम् ? न्याग्रोधमूलाः शालयः ||७||
1
,
न्यङ्कोर्वा |७|४|८|| न्यङ्कोस्तद्धिते ञ्णिति यः प्रागैद्वा स्यात् । नैयङ्कवम्, न्याङ्कवम् ||८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org