SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूपितं नाम्नि विषये कच् न स्यात् । बहुदेवदत्तो नाम ग्रामः ।।१७६|| ईयसोः ।७।३।१७७॥ ईयस्वन्तात् समासात् कच् न स्यात् । बहुश्रेयसी सेना ।।१७७|| __ सहात् तुल्ययोगे।७३।१७८॥ तुल्ययोगार्थात् सहाद् बहुव्रीहे: कच् न स्यात् । सपुत्रो याति । तुल्ययोग इति किम् ? सकर्मकः ।।१७८।। भ्रातुः स्तुतौ ।७।३।१७९॥ भ्रात्रन्तात् समासात् कच् न स्यात् , स्तुतौ गम्यायाम् । सुभ्राता ।।१७९।। नाडी-तन्त्रीभ्यां स्वाङ्गे ।७।३।१८०॥ स्वाङ्गार्थात् नाडी-तन्त्र्यन्तात् समासात् कच् न स्यात् । बहुनाडि: काय: , बहुतन्त्री ग्रीवा । स्वाङ्ग इति किम् ? बहुनाडीक: स्तम्बः ॥१८०।। निष्प्रवाणिः ।७३।१८१॥ अस्मिन् कजभावो निपात्यः । निष्प्रवाणि: पट: ।।१८१।। सुध्वादिभ्यः ।७।३।१८२॥ एभ्य: कच् न स्यात् । सुभ्रूः , वरोरू: ॥१८२।। इति [आचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] सप्तमस्याध्यायस्य तृतीय: पाद: समाप्त: ।।७।३।। अयमवनिपतीन्दो ! मालवेन्द्रावरोधस्तनकलशपवित्रां पत्रवल्लीं लुनातु । कथमखिलमहीभृन्मौलिमाणिक्यभेदे , घटयति पटिमानं भग्नधारस्तवासि: ? ||२७|| १. समाप्तः P3 J2 नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy