________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
पूर्णाद् वा ।७।३।१६६॥ पूर्णात् परस्य काकुदस्य बहुव्रीहौ लुग् वा स्यात् । पूर्णकाकुत् , पूर्णकाकुद: ||१६६।।
ककुदस्याऽवस्थायाम् ।७।३।१६७॥ अस्य बहुव्रीही वयसि गम्ये लुक् स्यात् । पूर्णककुद् युवा ।।१६७||
त्रिककुद् गिरौ ।।३।१६८॥ गिरावर्थे त्रे: परस्य ककुदस्य बहुव्रीहौ ककुन्निपात्यः । त्रिककुद् गिरिः ।।१६८॥
स्त्रियामूधसो न् ।७।३।१६९॥ स्त्र्यर्थस्योधसो बहुव्रीहौ न् स्यात् । कुण्डोध्नी गौः ।।१६९।।
इनः कच् ।७।३।१७०॥ इन्नन्ताद् बहुव्रीहे: स्त्र्यर्थात् कच् स्यात् । बहुदण्डिका सेना ॥१७०।।
ऋनित्यदितः ।७।३।१७१॥ दन्तात् , नित्यं दिदादेशो यस्मात् तदन्ताच्च बहुव्रीहे: कच् स्यात् । बहुकर्तृक: , बहुनदीको देश: । नित्येति किम् ? पृथुश्री: ।।१७१।।
दध्युरः-सर्पिर्मधूपानच्छालेः ।७।३।१७२॥ एतदन्ताद् बहुव्रीहे: कच् स्यात् । प्रियदधिकः , प्रियोरस्कः , बहुसर्पिष्क: , अमधुकः , बहूपानत्कः , अशालिकः ।।१७२।।
पुमनडुनौ-पयो-लक्ष्म्या एकत्वे ।।३।१७३॥ एकार्था येऽमी , तदन्ताद् बहुव्रीहे: कच् स्यात् । अपुंस्क: , प्रियानडुत्क: अनौकः , अपयस्क: , सुलक्ष्मीकः । एकत्व इति किम् ? द्विपुमान् ॥१७३।।
नञोऽर्थात् ।७।३।१७४॥ नञः परो योऽर्थस्तदन्ताद् बहुव्रीहे: कच् स्यात् । अनर्थकं वचः ।।१७४।।
शेषाद् वा ।७।३।१७५॥ उपर्युक्तातिरिक्ताद् बहुव्रीहे: कच् वा स्यात् । बहुखट्वकः , बहुखट्दः । शेषादिति किम् ? प्रियपथः ।।१७५||
न नाम्नि ।७।३।१७६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org