SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं ऊर्ध्वात् परस्य जानोर्बहुव्रीहौ जु-ज्ञौ वा स्याताम् । ऊर्ध्वजुः , ऊर्ध्वज्ञ: , ऊर्ध्वजानुः ।।१५६।। सुहृद्-दुर्हन्मित्रा-ऽमित्रे।७।३।१५७॥ सु-दुल् परस्य हृदयस्य बहुव्रीहौ यथासंख्यं मित्रेऽमित्रे चार्थे हृद् निपात्य: । सुहन् मित्रम् , दुर्हद् अमित्रः । मित्रा-ऽमित्र इति किम् ? सुहदयो मुनिः , दुर्हदयो व्याधः ।।१५७॥ धनुषो धन्वन् ।७।३।१५८॥ बहुव्रीहौ स्यात् । शार्ङ्गधन्वा ।।१५८।। वा नाम्नि ।७।३।१५९॥ धनुषो बहुव्रीहौ धन्वन् वा स्यात् , नाम्नि । पुष्पधन्वा , पुष्पधनुः ।।१५९।। खर-खुरान्नासिकाया नस् ।७।३।१६०॥ आभ्यां परस्या नासिकाया बहुव्रीहौ नस् स्यात् , नाम्नि। खरणा: , खुरणा: ॥१६०॥ __ अस्थूलाच नसः ।७।३।१६१॥ स्थूलवर्जात् खर-खुराभ्यां च परस्या नासिकाया बहुव्रीहौ नसः स्यात् , नाम्नि । द्रुणसः , खरणसः , खुरणसः । अस्थूलादिति किम् ? स्थूलनासिक: ॥१६१।। उपसर्गात् ।।३।१६२॥ अस्मात् परस्या नासिकाया बहुव्रीहौ नस: स्यात् । प्रणसं मुखम् ॥१६२।। वेः खु-ख-ग्रम् ।७।३।१६३॥ वेरुपसर्गात् परस्या नासिकाया बहुव्रीहावेते स्युः । विखु: , विनः , विग्र: ||१६३।। जायाया जानिः ।७।३।१६४॥ जायाशब्दस्य जानिर्बहुव्रीहौ स्यात् । युवजानिः ।।१६४।। __ व्युदः काकुदस्य लुक् ।७।३।१६५॥ आभ्यां परस्यास्य बहुव्रीहौ लुक् स्यात् । विकाकुत् , उत्काकुत् ।।१६५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy