________________
स्वोपज्ञलघुवृत्तिविभूषितं ञ्णिति तद्धिते । कौरुजङ्गल: , कौरुजाङ्गल: । वैश्वधेनवः , वैश्वधैनवः । सौवर्णवलजः , सौवर्णवालजः ।।२४||
हृद्-भग-सिन्धोः ।७।४।२५॥ हृदाद्यन्तानां पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेर्वृद्धि: स्यात् , णिति तद्धिते । सौहार्दम् , सौभाग्यम् , साक्तुसैन्धवः ।।२५।।
प्राचां नगरस्य ।७४।२६॥ प्राग्देशार्थस्य नगरान्तस्य णिति तद्धिते पूर्वोत्तरपदयो: स्वरेष्वादेर्वृद्धि: स्यात् । सौह्मनागरः । प्राचामिति किम् ? माडनगरः ॥२६॥
अनुशतिकादीनाम् ।७।४।२७॥ एषां णिति तद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेर्वृद्धि: स्यात् । आनुशातिकम् , आनुहौडिकम् ।।२७||
देवतानामात्वादौ ।७।४।२८॥ आत्वविषये देवतार्थानां पूर्वोत्तरपदयो: स्वरेष्वादेर्वृद्धि: स्यात् , णिति तद्धिते | आग्नावैष्णवं सूक्तम् । आत्वादाविति किम् ? ब्राह्मप्रजापत्यम् ||२८||
आतो नेन्द्र-वरुणस्य ।७४॥२९॥ आदन्तात् पूर्वपदात् परस्येन्द्रस्य वरुणस्य चोत्तरपदस्य स्वरेष्वादेर्वृद्धिर्न स्यात् । आग्नेन्द्रं सूक्तम् , ऐन्द्रावरुणम् । आत इति किम् ? आग्निवारुणम् ।।२९।।
सारवैक्ष्वाक-मैत्रैय-भ्रौणहत्य-धैवत्य-हिरण्मयम् ।७।४।३०॥ एतेऽणाद्यन्ता अय्लोपादौ निपात्या: । सारवं जलम् , ऐक्ष्वाक: , मैत्रेय: , भ्रौणहत्यम् , धैवत्यम् , हिरण्मयम् ।।३०||
वाऽन्तमा-ऽन्तितमा-ऽन्तितो-ऽन्तिया-ऽन्तिषत् ।।४।३१॥ एते तमबाद्यन्ता: कृततिकादिलुको वा निपात्या: । अन्तमः , अन्तिकतम: ; अन्तितमः , अन्तिकतम: ; अन्तितः , अन्तिकत: ; अन्तियः अन्तिक्य: 3; अन्तिषद् , अन्तिकसद् ॥३१।।
विन्-मतोष्ठेियसौ लुप् ।।४।३२॥ विन्मत्वोरेषु परेषु लुप् स्यात् । स्रजयति , स्रजिष्ठः , स्रजीयान् , त्वचयति १. विन्मतो पार P3॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org