________________
४२८
स्वोपज्ञलघुवृत्तिविभूषितं
जात्यन्ताद् बहुव्रीहेरीय: स्यात् , सामान्याश्रयेऽन्यपदार्थे । ब्राह्मणजातीय: । सामान्यवतीति किम् ? बहुजातिामः ॥१३९।।
भृतिप्रत्ययान्मासादिकः ।७।३।१४०॥ भृत्यर्थाद् यः प्रत्ययस्तदन्तात् परो यो मासस्तदन्ताद् बहुव्रीहेरिक: स्यात् । पञ्चको मासोऽस्य पञ्चकमासिकः । मासादिति किम् ? पञ्चकदिवसकः ॥१४०॥
द्विपदाद् धर्मादन् ।७।३।१४१॥ धर्मान्ताद् द्विपदाद् बहुव्रीहेरन् स्यात् । साधुधर्मा । द्विपदादिति किम् ? परमस्वधर्मः ॥१४१।।
सु-हरित-तृण-सोमाज्जम्भात् ।७।३।१४२॥ एभ्य: परो यो जम्भस्तदन्ताद् बहुव्रीहेरन् स्यात् । सुजम्भा , हरितजम्भा , तृणजम्भा , सोमजम्भा ना ॥१४२॥
दक्षिणेर्मा व्याधयोगे ।७।३।१४३॥ अयं बहुव्रीहिरन्नन्तो निपात्य: , व्याधेन योगे सति । ईर्मं बहु व्रणं वा , दक्षिणेर्मा मृग: । व्याधयोग इति किम् ? दक्षिणेम: पशुः ॥१४३।।
सु-पूत्युत्-सुरभेर्गन्धादिद् गुणे।७।३।१४४॥ एभ्यः परो गुणार्थो यो गन्धस्तदन्ताद् बहुव्रीहेरित् स्यात् । सुगन्धि , पूतिगन्धि , उद्गन्धि , सुरभिगन्धि द्रव्यम् । गुण इति किम् ? द्रव्ये सुगन्ध आपणिक: ।।१४४।।
वाऽऽगन्तौ ।७।३।१४५॥ स्वादिभ्यः पर आहार्यगुणार्थो यो गन्धस्तदन्ताद् बहुव्रीहेरिद् वा स्यात् । सुगन्धिः , सुगन्धो वा काय: ; एवं पूतिगन्धिः , पूतिगन्धः ; उद्गन्धिः , उद्गन्धः ; सुरभिगन्धिः , सुरभिगन्धः ।।१४५।।
वाऽल्पे ।७।३।१४६॥ अल्पार्थे यो गन्ध: तदन्ताद् बहुव्रीहेरिद् वा स्यात् । सूपगन्धि सूपगन्धं भोजनम् ||१४६॥
वोपमानात् ।७।३।१४७॥ उपमानात् परोयो गन्धस्तदन्ताद् बहुव्रीहेरिद्वा स्यात्। उत्पलगन्धि उत्पलगन्धं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org