________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
कल्याणपञ्चमीक: पक्षः ।।१३०।।
नञ्-सु-व्युप-त्रेश्चतुरः ।७।३।१३१॥ एभ्यो यश्चत्वा: तदन्ताद् बहुव्रीहेरप् स्यात् । अचतुरः , सुचतुरः , विचतुरः , उपचतुरः , त्रिचतुराः ।।१३१||
__ अन्तर्बहियां लोम्नः ।१३।१३२॥ आभ्यां परो यो लोमा तदन्ताद् बहुव्रीहेरप् स्यात् । अन्तर्लोमः , बहिर्लोम: प्रावारः ।।१३२।।
भान्नेतुः ।७।३।१३३॥ नक्षत्रार्थात् परो यो नेता तदन्ताद् बहुव्रीहेरप् स्यात् । मृगनेत्रा निशा ।।१३३।।
नाभेर्नाम्नि ।७।३।१३४॥ नाभ्यन्ताद् बहुव्रीहेर्नाम्न्यप् स्यात् । पद्मनाभः । नाम्नीति किम् ? विकसितवारिजनाभिः ।।१३४।।
नञ्-बहोर्चचो माणव-चरणे।७।३।१३५॥ आभ्यां परो य वाक् , तदन्ताद् बहुव्रीहेरप् स्यात् , यथासंख्यं माणवे चरणे चार्थे । अनुचो माणव: , बढचश्चरण: । माणव-चरण इति किम् ? अनृकं साम , बढुक्कं सूक्तम् ।।१३५।।
नञ्-सु-दुर्यः सक्ति-सक्त्थि -हलेर्वा ।७।३।१३६॥ नञादे: परो य: सक्त्यादिस्तदन्ताद् बहुव्रीहेरप् वा स्यात् । असक्तः , असक्तिः , सुसक्तः , सुसक्तिः , दु:सक्तः , दुःसक्तिः ; एवम् असक्त्थः , असक्त्थिः ; अहल: , अहलि: ।।१३६।।
प्रजाया अस् ।७।३।१३७॥ नञादिपूर्वपदात् प्रजान्ताद् बहुव्रीहेरस् स्यात् । अप्रजा: , सुप्रजा: , दुष्प्रजा: ।।१३७।
मन्दा-ऽल्पाच्च मेधायाः ।७।३।१३८॥ आभ्यां नञादिभ्यश्च परो यो मेधाशब्दस्तदन्ताद् बहुव्रीहेरस् स्यात् । मन्दमेधा: , अल्पमेधाः , अमेधाः , सुमेधाः , दुर्मेधा ना ॥१३८।।
जातेरीयः सामान्यवति ।७।३।१३९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org