________________
४२६
स्वोपज्ञलघुवृत्तिविभूषितं
, श्व:श्रेयसम् ।।१२२॥
नत्रव्ययात् संख्याया डः ।७।३।१२३॥ आभ्यां परो य: सङ्ख्यार्थस्तदन्तात् तत्पुरुषाद् ड: स्यात् । अदशा: , निस्त्रिंशः . खड्गः ॥१२३।।
संख्या-ऽव्ययादङ्गुलेः ।७।३।१२४॥ आभ्यां परो योऽङ्गुलिस्तदन्तात् तत्पुरुषाद् ड: स्यात् । व्यङ्गुलम् , निरङ्गुलम् ||१२४||
बहुव्रीहेः काष्ठे टः ।७।३।१२५॥ काष्ठार्थादगुल्यन्ताद् बहुव्रीहे: ट: स्यात् । व्यङ्गुलं काष्ठम् । काष्ठ इति किम् ? पञ्चाङ्गुलिर्हस्तः ॥१२५।।
सक्थ्यक्ष्णः स्वाङ्गे ।७।३।१२६॥ __ स्वाङ्गार्थी यौ सक्त्थ्यक्षी , तदन्ताद् बहुव्रीहे: ट: स्यात् । दीर्घसक्थी , स्वक्षी । स्वाङ्ग इति किम् ? दीर्घसक्थि अनः ।।१२६।।
द्वित्रेद्र्नो वा ।७३।१२७॥ आभ्यां परो यो मूर्धा तदन्ताद् बहुव्रीहे: टो वा स्यात् । द्विमूर्धः , द्विमूर्धा । त्रिमूर्धः , त्रिमूर्धा ।।१२७॥
प्रमाणी-संख्याड्डः ।७।३।१२८॥ प्रमाण्यन्तात् सङ्ख्यार्थाच्च बहुव्रीहेर्ड: स्यात् । स्त्रीप्रमाणा: कुटुम्बिनः , द्वित्रा: ॥१२८||
सुप्रात-सुश्व-सुदिव-शारिकुक्ष-चतुरौणीपदा-ऽजपद-प्रोष्ठपद- भद्र पदम् ।७।३।१२९॥
एते बहुव्रीहयो डान्ता निपात्या: । सुप्रातो ना , सुश्वः , सुदिवः , शारिकुक्ष: , चतुरस्रः , एणीपदः , अजपदः , प्रोष्ठपदः , भद्रपदः ।।१२९।।
पूरणीभ्यस्तत्प्राधान्येऽप् ।।३।१३०॥ पूरणप्रत्ययान्ता या स्त्री , तदन्ताद् बहुव्रीहेरप् स्यात् , पूरण्या: प्राधान्ये समासार्थत्वे सति । कल्याणीपञ्चमा रात्रयः । तत्प्राधान्य इति किम् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org