SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । सङ्घादिति किम् ? वागुरः ॥६२।। वाहीकेष्वब्राह्मण-राजन्येभ्यः ।७।३।६३॥ एषु य: शस्त्रजीविसङ्घो ब्राह्मणराजन्यवर्जस्तदर्थात् स्वार्थे द्रिय॑ट् स्यात् । कौण्डीविश्यः , कुण्डीविशा: । अब्राह्मणेत्यादि किम् ? गौपालि: , राजन्य: ॥६३।। वृकाट्टेण्यण् ।१३६४॥ वृकात् शस्त्रजीविसङ्घार्थात् स्वार्थे टेण्यण् द्रिः स्यात् । वार्केण्यः ॥६४|| __ यौधेयादेरञ् ।७।३।६५॥ एभ्य: शस्त्रजीविसंघार्थेभ्योऽञ् द्रि: स्यात् । यौधेयः , घार्तेयः ॥६५।। पर्धादेरण् ।७।३।६६॥ एभ्यः शस्त्रजीविसंघार्थेभ्य: स्वार्थेऽण् द्रि: स्यात् । पार्शवः , राक्षसः ||६६।। दामन्यादेरीयः ।।३।६७॥ एभ्य: शस्त्रजीविसंघार्थेभ्य: स्वार्थे ईयो द्रि: स्यात् । दामनीय: , औलपीय: ॥६७|| श्रुमच्छमीवच्छिखावच्छालावदूर्णावद्-विदभृदभिजितो गोत्रेऽणो यञ् ।७३।६८॥ ___ एभ्यो गोत्राऽणन्तेभ्य: स्वार्थे यञ् द्रि: स्यात् । श्रीमत्य: , शामीवत्य: , शेखावत्यः , शालावत्यः , और्णावत्यः , वैदभृत्य: , आभिजित्य: ॥६८|| समासान्तः ।७।३।६९॥ अत: परं विधास्यमानं समासस्यावयव: स्यात् , ततस्तस्य तत्तत्समाससंज्ञा । सुजम्भे , सुजम्भानौ स्त्रियौ , उपधुरम् , द्विधुरी , [सक्त्वचिनी] ।।६९।। न किमः क्षेपे ।।३।७०॥ निन्दार्थात् किम: परं यद् ऋगादिस्तदन्तात् समासात् समासान्तो न स्यात् । किंधू: , किंसखा । क्षेप इति किम् ? केषां राजा किंराजः ॥७०|| १. सक्त्वचिनी J2सं०मध्य एव । “स्रक् च त्वक् च चवर्गदषह: समाहारे [७।३।९८] सक्त्वचमस्यास्ति अतो[ऽनेकस्वरात् ७।२।६]" इति J2 टिप्पन्याम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org..
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy