SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४१८ स्वोपज्ञलघुवृत्तिविभूषितं बहूनां प्रश्ने डतमश्च वा ।७।३।५४॥ यदादिभ्यो बहूनां मध्ये निर्धार्यार्थेभ्य: प्रश्ने डतमो डतरश्च वा स्यात् । यतमो यतरो वा भवतां कठस्ततमस्ततरो वा यातु , एवं कतमः , कतर: , अन्यतमः , अन्यतर: , पक्षे यको यो वा , सक: स वा भवतां कठ इत्यादि ।।५४|| वैकात् ।।३।५५॥ एकाद् बहूनां मध्ये निर्धार्थाित् डतमो वा स्यात् । एकतमः , एकक: , एको वा भवतां कठः ॥५५।। तात् तमबादेश्यानत्यन्ते ।।३।५६॥ तान्तात् केवलात् तमबाद्यन्ताचानत्यन्तार्थात् कप् स्यात् । अनत्यन्तं भिन्नभिन्नकम् , भिन्नतमकम् , भिन्नतरकम् ।।५६।। न सामिवचने ।७।३।५७॥ अर्धवचने उपपदेऽनत्यन्तार्थात् क्तान्तात् केवलात् तमबाद्यन्ताच्च कप् न स्यात् । सामि अनत्यन्तं भिन्नम् , अर्धमनत्यन्तं भिन्नम् ।।५७|| नित्यं ञ-जिनोऽण् ।७।३।५८॥ ञ-जिनन्तात् स्वार्थे नित्यमण् स्यात् । व्यावक्रोशी , साङ्कोटिनम् ।।५८|| विसारिणो मत्स्ये ।७।३।५९॥ अस्माद् मत्स्यार्थात् स्वार्थेऽण् स्यात् । वैसारिणो मत्स्य: ॥५९|| पूगादमुख्यकाघ्यो द्रिः ।।३।६०॥ नानाजातीया अनियतवृत्तयोऽर्थकामप्रधाना: सङ्घा: पूगा: , तदर्थात् स्वार्थे ज्यो द्रिः स्यात् , न चेत् पूगार्थं मुख्यार्थकान्तम् । लौहध्वज्य: , लोहध्वजा: । अमुख्यकादिति किम् ? देवदत्तकः पूगः ॥६०॥ वातादस्त्रियाम् ।७।३।६।। नानाजातीया अनियतवृत्तय: शरीरायासजीविन: सङ्घा: वाता: , तदर्थादस्त्रियां स्वार्थे ञ्यो द्रिः स्यात् । कापोतपाक्य: , स्त्री तु कपोतपाका ।।६।। शस्त्रजीविसङ्घाज्यड् वा ।७।३।६२॥ एतदर्थात् स्वार्थे द्रियंड् वा स्यात् । शाबर्यः , शबराः , पौलिन्द्यः , पुलिन्दा: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy