________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
क्वचित् तुर्यात् ।७३।४४॥ अनुकम्पोत्पन्ने स्वरादौ प्रत्यये यथालक्ष्यं चतुर्थात् स्वरादूर्ध्वं लुक् स्यात् । बृहस्पतिय: । क्वचिदिति किम् ? उपडः ॥४४॥
पूर्वपदस्य वा ।७।३।४५॥ अनुकम्पार्थे स्वरादौ प्रत्यये पूर्वपदस्य लुग् वा स्यात् । दत्तिय: , देविय: ||४५।।
ह्रस्वे ।।३।४६॥ ह्रस्वार्थाद् यथायोगं कबादि: स्यात् । पटकः , पचतकि ।।४६।।
कुटी-शुण्डाद् रः ।।३।४७।। आभ्यां ह्रस्वार्थाभ्यां र: स्यात् । कुटीर: . शुण्डारः ।।४७||
शम्या रु-रौ ।७।३।४८॥ अस्माद् ह्रस्वार्थादेतौ स्याताम् । शमीरुः . शमीरः ।।४८।।
__ कुत्वा डुपः ।।३।४९।। अस्माद् ह्रस्वार्थात् डुप: स्यात् । कुतुपः ।।४।।
कासू-गोणीभ्यां तरट् ।७।३।५०॥ आभ्यां ह्रस्वार्थाभ्यां तरट् स्यात् । कासूतरी , गोणीतरी ।। ||
वत्सोक्षा-ऽश्वर्पभाद्धासे पित् ।७।३।५२॥ एभ्य: स्वप्रवृत्तिहेतोयसे गम्ये तरट पित् स्यात् । वत्सतर: , उक्षतर: . अश्वतर: , ऋषभतरः ||५१||
वैकाद् द्वयोर्निर्धार्ये डतरः ।७।३।५२।। एकाद् द्वयोः निर्धार्थाद् डतरो वा स्यात् । एकतर: . एकको वा भवतो: कठ: पटुर्गन्ता चैत्रो दण्डी वा ।।५२।।
यत्-तत्-किमन्यात् ।७।३।५३॥ एभ्यो द्वयोरेकस्मिनिर्धार्येऽर्थे वर्तमानेभ्यो डतर: स्यात् । यतरी भवता: कठादिस्ततर आगच्छेत् , एवं कतरः , अन्यतरः ।।५३।। १. निर्धार्ये डतरो पार J2सं० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org