SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं स्युः । उपड: , उपक: , उपियः , उपिकः , उपिल: , उपेन्द्रदत्तकः ॥३६।। ___ऋवर्णोवर्णात् स्वरादेरादेर्लुक् प्रकृत्या च ।७॥३॥३७॥ ऋवर्णान्तोवर्णान्ताभ्यां परस्यानुकम्पोत्पन्नस्य स्वरादेः प्रत्ययस्यादेर्लुक् स्यात् , लुकि तु सति प्रकृतेः प्रकृतिः । मातृयः , मातृक: , मातृल: , वायुयः , वायुकः , वायुलः । स्वरादेरिति किम् ? मद्रबाहुकः ॥३७|| लुक्युत्तरपदस्य कपन् ।॥३॥३८॥ नृनाम्नो यदुत्तरपदं तस्य ते लुग् वा [३।२।१०८] इति लुकि सति तत: कपन् स्यात् , अनुकम्पायां गम्यायाम् । देवदत्ता , लुकि देवी , अनुकम्पिताऽसौदेवका । उत्तरपदस्येति किम् ? दत्तिका ।।३८|| लुक् चाजिनान्तात् ।७।३।३९॥ अजिनान्तात् नृनाम्नोऽनुकम्पायां कप्न् स्यात् , तद्योगे च लुगुत्तरपदस्य । व्याघ्रकः ॥३९|| पड्व कस्वरपूर्वपदस्य स्वरे ।७।३॥४०॥ षड्वर्जमेकस्वरं पूर्वपदं यस्य तस्योत्तरपदरयानुकम्पार्थे स्वरादौ प्रत्यये लुक् स्यात् । अनुकम्पितो वागाशी: वाचिय: । षड्वर्जेत्या दि किम् ? उपेन्द्रेण दत्त: उपेन्द्रदत्तः , सोऽनुकम्पितः उपडः , षडङ्गुलिस्तु षडियः । स्वर इति किम् ? वागाशीर्दत्तकः ॥४०॥ द्वितीयात् स्वरादूर्ध्वम् ।७॥३॥४१॥ अनुकम्पार्थे स्वरादी प्रत्यये प्रकृतेर्द्वितीयात् स्वरादूर्ध्वं लुक् स्यात् । देविय: ॥४१॥ सन्ध्यक्षरात् तेन ॥३॥४३॥ अनुकम्पार्थ स्वरादौ प्रत्यये प्रकृतेर्द्वितीयात् सन्ध्यक्षरस्वरादूर्ध्वं तेन सन्ध्यक्षरेण सह लुक् स्यात् । कुवियः , कहिकः ॥४२॥ शेवलाद्यादेस्तृतीयात् ।७।३॥४३॥ शेवलादिपूर्वपदस्य नृनाम्नोऽनुकम्पार्थे स्वरादौ प्रत्यये तृतीयात् स्वरादूचं लुक् स्यात् । शेवलियः , सुपरियः ।।४३।। १. त्यादीति पार J2 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy