________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
त्याद्यन्तस्य , सर्वादेश्च स्वराणां मध्ये योऽन्त्यस्वरस्तस्मात् पूर्वोऽक् स्यात् , प्राग् नित्यात् । कुत्सितमल्पमज्ञातं वा पचति पचतकि , सर्वके , विश्वके
|२९||
युष्मदस्मदोऽसोभादिस्यादेः ॥७॥३॥३०॥ अनयोः स्-ओ-भादिवर्जस्याद्यन्तयोः स्वरेष्वन्त्यात् पूर्वोऽक् स्यात् । त्वयका , मयका । असोभादिस्यादेरिति किम् ? युष्मकासु , युवकयोः , युवकाभ्याम्
॥३०॥
अव्ययस्य को द् च ।७॥३॥३१॥ प्राग् नित्याद् येऽर्थास्तेषु द्योत्येष्वव्ययस्य स्वरेष्वन्त्यस्वरात् पूर्वोऽक् स्यात् तद्योगे चाऽस्य को द् । कुत्सिताधुच्चैः उच्चकैः , एवं धिक् धकिद् ॥३१॥
तूष्णीकाम् ।७॥३॥३२॥ __तूष्णीमो म: प्राक् का इत्यन्तो निपात्यः , प्राक् नित्यात् । कुत्सितादि तूष्णीं तूष्णीकामास्ते ।।३२।।
कुत्सिता-ऽल्पा-ऽज्ञाते ७॥३॥३३॥ कुत्सिताद्युपाधिकार्थाद् यथायोगं कबादय: स्युः । अश्वकः , पचतकि , उच्चकैः
॥३३॥
अनुकम्पा-तयुक्तनीत्योः ।७।३।३४॥ अनुकम्पायां तद्युक्तायां च नीतौ गम्यायां यथायोगं कबादय: स्युः । पुत्रक: , स्वपिषकि , पुत्रक ! एहकि , उत्सङ्गके उपविश , कर्दमकेनाऽसि दिग्धकः
|३४||
अजातेन॒नाम्नो बहुस्वरादियेकेलं वा ।७।३॥३५॥ मनुष्यनाम्नो बहुस्वरादनुकम्पायां गम्यायां एते वा स्युः , न चेत् नृनाम जात्यर्थम् । देविय: , देविकः , देविल: , देवदत्तकः । अजातेरिति किम् ? महिषकः ॥३५॥
वोपादेरडा-ऽकौ च ।।३॥३६॥ उपपूर्वादजात्यर्थाद् बहुस्वराद् नृनाम्नोऽनुकम्पायामडा-ऽकौ , इयेकेलाश्च वा १. उपविशक पार ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org