SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं कालात् |७|३|१९॥ कज्जलादिरक्तेऽनित्यवर्णे च वर्त्तमानात् कालात् को वा स्यात् । काल एव कालकः पटः, कालकं मुखं शोकेन || १९|| शीतोष्णादृतौ ।७।३।२०॥ ४१४ आभ्यामृत्वर्थाभ्यां को वा स्यात् । शीतकः, उष्णक ऋतुः ||२०|| लून - वियतात् पशौ | ७|३|२१|| आभ्यां पश्वर्थाभ्यां को वा स्यात् । लूनकः वियातकः स्नाताद् वेदसमाप्तौ ।७।३।२२॥ " अस्यां गम्यायां स्नातात् कः स्यात् । वेदं समाप्य स्नातः स्नातकः ||२२|| तनु-पुत्राणु- बृहती - शून्यात् सूत्र - कृत्रिम - निपुणा-ऽऽच्छादनरिक्ते |७|३|२३|| तन्वादिभ्यो यथासंख्यं सूत्राद्यर्थेभ्यः कः स्यात् । तनुकं सूत्रम्, पुत्रकः कृत्रिम, अणुको निपुण, बृहतिका आच्छादनम् शून्यको रिक्तः ||२३|| भागेऽष्टमाञ्ञः | ७|३॥२४॥ पशुः | २१ || " भागार्थादस्मात् ञो वा स्यात् | आष्टमो भागः ||२४|| षष्ठात् ।७।३।२५।। अस्माद् भागार्थात् ञो वा स्यात् । षाष्ठो भागः ||२५|| माने क | ७|३|२६॥ Jain Education International. मीयते येन तद्रूपभागार्थात् षष्ठात् को अश्व वा स्यात् । षष्ठकः षष्ठो भागो मानं चेत् ||२६|| एकादाकिन् चासहाये |७|३|२७|| असहायार्थादेकाद् आकिन् कश्च स्यात् । एकाकी, एककः ||२७|| प्राग् नित्यात् प् | ७|३|२८|| नित्यशब्दसङ्कीर्त्तनात् प्राग् येऽर्थास्तेषु द्योत्येषु कप् अधिकृत ज्ञेयः । कुत्सितोऽल्पोऽज्ञातो वाऽश्वः अश्वकः ||२८|| त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक् |७|३|२९|| For Private & Personal Use Only , www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy