________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
त्यादेश्च प्रशस्ते रूपप् ।७।३।१०॥ त्याद्यन्ताद् नाम्नश्च प्रशस्तार्थाद् रूपप् स्यात् । पचतिरूपम् , दस्युरूप:
||१०||
अतमबादेरीषदसमाप्ते कल्पब्-देश्यब्-देशीयर् ।७।३॥११॥
किञ्चिदसमाप्तार्थात् त्याद्यन्तात् नाम्नश्च तमबाद्यन्तवर्जादेते स्युः । पचतिकल्पम् , पचतिदेश्यम् , पचतिदेशीयम् ; पटुकल्पा , पटुदेश्या , पटुदेशीया ।११।।
नाम्नः प्राग् बहुर्वा ।७।३।१२॥ ईषदपरिसमाप्तार्थात् प्राग् बहुर्वा स्यात् । बहुपटुः , पटुकल्पः ।।१२।।
न तमबादिः कपोऽच्छिन्नादिभ्यः ॥७॥३॥१३॥ छिन्नादिवर्जाद् य: कप् तदन्तात् तमबादिर्न स्यात् । अयमेषामनयोर्वा प्रकृष्टः पटुक: । अच्छिन्नादिभ्य इति किम् ? छिन्नकतमः ।।१३।।
अनत्यन्ते ।७।३।१४॥ अनत्यन्तार्थात् कबन्तात् तमबादिर्न स्यात् । इदमेषामनयोर्वा प्रकृष्टं छिन्नकम् , भिन्नकम् ।।१४॥
यावादिभ्यः कः ।।३।१५॥ स्वार्थे स्यात् । यावकः , मणिकः ।।१५।।
कुमारीक्रीडनेयसोः ।॥३॥१६॥ कुमारीणां यत् क्रीडनं तदर्थाद् , ईयस्वन्ताच्च स्वार्थे क: स्यात् । कन्दुक: , श्रेयस्कः ॥१६॥
लोहितान्मणौ ॥७॥३॥१७॥ अस्माद् मण्यर्थात् स्वार्थे को वा स्यात् । लोहितको मणि: , लोहितो वा ||१७||
रक्ता-ऽनित्यवर्णयोः ।७॥३॥१८॥ लाक्षादिरक्तार्थादनित्यवर्णार्थाच लोहितात् को वा स्यात् । लोहितक: पट: . लोहितकमक्षि कोपेन ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org