SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूपितं [ तृतीयः पादः ] प्रकृते मयट् ।७।३॥१॥ प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् , तदर्थात् स्वार्थे मयट् स्यात् । अन्नमयम् , पूजामयम् ॥१॥ अस्मिन् ।७।३।२।। प्रकृतार्थादस्मिन्निति विषये मयट् स्यात् । अपूपमयं पर्व ।।२।। तयोः समूहवच बहुषु ।७॥३॥३॥ प्रकृतेऽस्मिन्निति च विषययोर्बह्वर्थात् समूह इव प्रत्यय: स्यात् , मयट च | आपूपिकम् , अपूपमयम् , अपूपास्तत्पर्व वा ॥३॥ निन्ये पाशप् ।७३॥४॥ निन्द्यार्थात् स्वार्थे पाशप् स्यात् । छान्दसपाश: ॥४|| प्रकृष्टे तमप् ।७।३५॥ प्रकृष्टार्थात् तमप् स्यात् । शुक्लतमः , कारकतमः ।।५।। द्वयोर्विभज्ये च तरप् ।।३।६॥ द्वयोर्मध्ये प्रकृष्टे विभज्ये च प्रकृष्टे वर्तमानात् तरप् स्यात् । पटुतरा स्त्री , साङ्काश्यकेभ्य: पाटलिपुत्रका आढ्यतरा: ।।६।। क्वचित् स्वार्थे ।७।३।७॥ यथालक्ष्यं स्वार्थेऽपि तरप् स्यात् । अभिन्नतरकम् , उच्चैस्तराम् ।।७।। किं-त्याये-ऽव्ययादसत्त्वे तयोरन्तस्याऽऽम् ।७।३।८॥ किमस्त्याद्यन्तादेदन्तादव्ययाच परयोस्तमप्-तरपोरन्तस्याऽऽम् स्यात् , न चेत् तौ सत्त्वे द्रव्ये वर्त्तते । किन्तमाम् , किन्तराम् ; पचतितमाम् , पचतितराम् ; पूर्वाह्नेतमाम् , पूर्वाह्नेतरां भुङ्क्ते , अतितमाम् , अतितराम् । असत्त्व इति किम् ? किन्तरं दारु ।।८।। गुणाङ्गाद् वेष्ठेयसू ।।३।९॥ गुणप्रवृत्तिहेतुकात् तमप्-तरपोर्विषये यथासंख्यमेतौ वा स्याताम् । पटिष्ठः , पटुतमः ; गरीयान् , गुरुतरः ।।९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy