SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् न द्वित्वे ।।२।१४७॥ अव्यक्तानुकरणस्यानेकस्वरस्य द्वित्वे सति इतौ परेऽतो लुग् न स्यात् । पटत्पटदिति ।।१४७॥ तो वा ।१२।१४८॥ द्वित्वेऽव्यक्तानुकरणस्यानेकस्वरस्यातस्तो लुग् वा स्यात् । पटत्पटेति करोति , पटत्पटदिति वा ॥१४८॥ डाच्यादौ ।।२।१४९॥ अव्यक्तानुकरणस्यानेकस्वरस्याच्छब्दान्तस्य द्वित्वे सति आद्यतस्तो डाचि लुक् स्यात् । पटपटा करोति । आदाविति किम् ? पतपता करोति ।।१४९|| बह्वल्पार्थात् कारकादिष्टा-ऽनिष्टे शस् ।१२।१५०॥ बह्वल्पाभ्यां कारकवाचिभ्यां यथासंख्यमिष्टेऽनिष्टे च विषये शस् पिद् वा स्यात् , इष्टं प्राशित्रादि , अनिष्टं श्राद्धादि । ग्रामे बहवो बहुशो वा ददति , एवं भूरिशः , अल्पमल्पशो वा धनं दत्ते श्राद्धे , एवं स्तोकश: । इष्टानिष्ट इति किम् ? बहु दत्ते श्राद्धे , अल्पं प्राशिः ॥१५०|| संख्यैकार्थाद् वीप्सायां शस् ।७।२।१५१॥ संख्यैकार्थाभ्यां कारकार्थाभ्यां वीप्सायां द्योत्यायां शस् वा स्यात् । एकैकमेकशो वा दत्ते , माषं माषं माषशो वा देहि । संख्यैकार्थादिति किम् ? माषौ माषौ दत्ते । वीप्सायामिति किम् ? द्वौ दत्ते ॥१५१।। संख्यादेः पादादिभ्यो दान-दण्डे चाऽकल्लुक् च ।।२।१५२॥ ___ संख्यार्थादाद्यवयवात् परे ये पादादयस्तदन्ताद् दाने दण्डे वीप्सायां च विषयेऽकल् स्यात् , तद्योगे च प्रकृतेरन्तस्य लुक् । द्विपदिकां दत्ते दण्डितो भुङ्क्ते वा , एवं द्विशतिकाम् ।।१५२।। तीयाट्टीकण न विद्या चेत् ।।२।१५३॥ तीयान्तादविद्यार्थात् स्वार्थे टीकण् वा स्यात् । द्वितीयम् , द्वैतीयीकम् । विद्या तु द्वितीया ॥१५३|| निष्फले तिलात् पिञ्ज-पेजौ ।१२।१५४॥ १.संख्यार्थादावयवात् पामू०२ । संख्यार्थादाद्यावयवात् पासं०२ । संख्यार्थादवयवात् P3 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy