________________
स्वोपज्ञलघुवृत्तिविभूषितं
निष्फलार्थात् तिलादेतौ स्याताम् । तिलपिञ्जः , तिलपेजः ॥१५४||
प्रायोऽतोयसट्-मात्रट् ।७।२।१५५।। अत्वन्तात् स्वार्थे एतौ स्याताम् , यथालक्ष्यम् । यावद्द्वयसम् , यावन्मात्रम् ||१५५||
वर्णा-ऽव्ययात् स्वरूपे कारः ।।२।१५६॥ एभ्य: स्वरूपार्थेभ्य: कारो वा स्यात् । अकार: , ॐकारः । स्वरूप इति किम् ? अ: विष्णुः ।।१५६।।
रादेफः ।७२।१५७॥ वा स्यात् । रेफ: । प्रायोऽधिकाराद् रकार: ॥१५७||
नाम-रूप-भागाद् धेयः ।७।२।१५८॥ एभ्य: स्वार्थे धेयो वा स्यात् । नामधेयम् , रूपधेयम् , भागधेयम् ।।१५८।।
मादिभ्यो यः ।७।२।१५९॥ एभ्यो य: स्यात् । मर्त्यः , सूर्यः ॥१५९।।
नवादीन-तन-त्नं च नू चास्य ।।२।१६०॥ नवात् स्वार्थे एते यश्च वा स्युः , तद्योगे च नवस्य नू: । नवीनम् , नूतनम् , नूनम् , नव्यम् ।।१६०||
प्रात् पुराणे नश्च ।।२।१६१॥ पुराणार्थात् प्रात् न ईन-तन-त्नाश्च स्युः । प्रणम् , प्रीणम् , प्रतनम् , प्रत्नं पुराणम् ।।१६१||
देवात् तल् ।७।२।१६२॥ स्वार्थे वा स्यात् । देवता ॥१६२।।
होत्राया ईयः ।७।२।१६३॥ स्वार्थे वा स्यात् । होत्रीयम् ॥१६३॥
भेषजादिभ्यष्टयण् ।७।२।१६४॥ स्वार्थे वा स्यात् । भैषज्यम् , आनन्त्यम् ॥१६४॥
प्रज्ञादिभ्योऽण् ।७।२।१६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org