SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४०८ स्वोपज्ञलघुवृत्तिविभूषितं निष्कुलानिष्कोषणे ।।२।१३९॥ अस्मात् कृग्योगे निष्कोषणेऽर्थे डाच् स्यात् । निष्कुला करोति दाडिमम् । निष्कोषण इति किम् ? निष्कुलं करोति शत्रुम् ।।१३९॥ प्रिय-सुखादानुकूल्ये ।७।२।१४०॥ आभ्यां कृग्योगे आनुकूल्ये गम्ये डाच् स्यात् । प्रिया करोति , सुखा करोति गुरुम् । आनुकूल्य इति किम् ? प्रियं करोति साम ।।१४०॥ दुःखात् प्रातिकूल्ये ।७।२।१४१॥ दु:खात् प्रातिकूल्ये गम्ये कृग्योगे डाच् स्यात् । दुःखा करोति शत्रुम्। प्रातिकूल्य इति किम् ? दु:खं करोति रोगः ॥१४१।। शूलात् पाके ।७२।१४२॥ शूलात् पाके गम्ये कृग्योगे डाच् स्यात् । शूला करोति मांसम् ।।१४२|| सत्यादशपथे ।१२।१४३॥ __ अशपथार्थात् सत्यात् कृग्योगे डाच् स्यात् । सत्या करोति वणिग् भाण्डम् । अशपथ इति किम् ? सत्यं करोति , शपथमित्यर्थः ।।१४३॥ मद्र-भद्राद् वपने ।।२।१४४॥ आभ्यां मुण्डने गम्ये कृग्योगे डाच् स्यात् । मद्रा करोति , भद्रा करोति नापितः । वपन इति किम् ? मद्रं करोति , भद्रं करोति साधुः ॥१४४|| अव्यक्तानुकरणादनेकस्वरात् कृ-भ्वस्तिनाऽनितौ द्विश्च ।।२।१४५॥ यस्मिन् ध्वनौ वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्यक्तः , तदनुकरणार्थादनेकस्वराद् अनितिपरात् कृ-भ्वस्तियोगे डाच् वा स्यात् , द्विश्वास्य प्रकृतिः । पटपटा करोति , भवेत् , स्याद् वा । अनेकस्वरादिति किम् ? खाट् करोति | अनिताविति किम् ? पटिति करोति ।।१४५।। इतावतो लुक् ।७।२।१४६॥ अव्यक्तानुकरणस्यानेकस्वरस्य योऽदिति तस्येतिशब्दे लुक् स्यात् । पटिति ॥१४६॥ १. भद्रं करोति J2 पार नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy