________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
४०७
जातेः सामान्यस्य व्याप्तौ स्सात् स्यात् । अस्यां सेनायां सर्वं शस्त्रमग्निसात् करोति दैवम् , एवम् अग्निसाद् भवति , अग्निसात् स्यात् , अग्निसात् सम्पद्यते ।।१३१॥
तत्राऽधीने ।१२।१३२॥ तत्रेति ड्यन्ताद् आयत्तेऽर्थे कृ-भ्वस्ति-सम्पद्योगे स्सात् स्यात् । राजसात् करोति , राजसाद् भवति , राजसात् स्यात् , राजसात् सम्पद्यते ।।१३२।।
देये त्रा च ।७।२।१३३॥ ड्यन्ताद् देये आयत्तेऽर्थे कृ-भ्वस्ति-सम्पद्योगे त्रा: स्यात् । देवत्रा करोति द्रव्यम् , देवत्रा भवेत् , स्यात् , सम्पद्यते वा । देय इति किम् ? राजसात् स्याद् राष्ट्रम् ।।१३३।।
सप्तमी-द्वितीयाद् देवादिभ्यः ।१२।१३४॥ एभ्यो ङ्यमन्तेभ्यः स्वार्थे वा स्यात् । देवत्रा वसेत् , भवेत् , स्यात् , करोति वा , एवं मनुष्यत्रा ॥१३४||
तीय-शम्ब-बीजात् कृगा कृषौ डाच् ।।२।१३५॥ तीयान्ताच्छम्ब-बीजाभ्यां च कृग्योगे कृषिविषये डाच् स्यात् । द्वितीया करोति , शम्बा करोति , बीजा करोति क्षेत्रम् । कृषाविति किम् ? द्वितीयं पटं करोति ||१३५।।
सङ्ख्यादेर्गुणात् ।।२।१३६॥ सङ्ख्याया आद्यवयवात् परो यो गुणस्तदन्तात् कृग्योगे कृषिविषये डाच् स्यात् । द्विगुणा करोति क्षेत्रम् ।।१३६।।
समयाद् यापनायाम् ।७।२।१३७॥ अस्मात् कालक्षेपे गम्ये कृग्योगे डाच् स्यात् । समया करोति , कालं क्षिपतीत्यर्थः ॥१३७||
सपत्र-निष्पत्रादतिव्यथने ।।२।१३८॥ आभ्यां कृग्योगेऽतिपीडने गम्ये डाच् स्यात् । सपत्रा करोति मृगम् , निष्पत्रा करोति । अतिव्यथन इति किम् ? सपत्रं करोति तरुं सेकः ॥१३८।। १. जातेः P3 J2 नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org