________________
स्वोपज्ञलघुवृत्तिविभूषितं
अञ्चत्यन्ताद् दिक्शब्दाद् दिगादिवृत्तेः सि-डसि-ड्यन्ताद् विहिता यो धा एनो वा तस्य लुप् स्यात् । प्राग् रम्यमागतो वासो वा ॥१२३।।
पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति ।१२।१२४॥ अपरस्य केवलस्य दिगर्थपूर्वपदस्य चाऽऽति परे पश्च: स्यात् । पश्चात् , दक्षिणपश्चात् रम्यमागतो वासो वा ।।१२४।।
वोत्तरपदेऽर्धे ।।२।१२५॥ अपरस्य केवलस्य दिक्पूर्वस्य चार्धे उत्तरपदे पश्चो वा स्यात् । पश्चार्धम् , अपरार्धम् ; दक्षिणपश्चार्द्धः , दक्षिणापरार्द्ध: ।।१२५।।
कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे चिः ।।२।१२६॥ कर्मार्थात् कृगा योगे , कर्थाच्च भ्वस्तियोगे प्रागभूततद्भावे गम्ये च्वि: स्यात् । शुक्लीकरोति पटम् , शुक्लीभवति , शुक्लीस्यात् पट: । प्रागिति किम् ? अशुक्ल शुक्लं करोत्येकदा ॥१२६।।
अरुर्मनश्चक्षुश्चेतो-रहो-रजसां लुक् च्वौ ।।२।१२७॥ एषां च्वौ अन्तस्य लुक् स्यात् । अरूस्यात् , महाऽरूस्यात् , उन्मनीस्यात् , चक्षूस्यात् , चेतीस्यात् , रहीस्यात् , रजीस्यात् ।।१२७||
इसुसोर्बहुलम् ।७२।१२८॥ इसुसन्तस्य च्वौ बहुलं लुक् स्यात् । सप्पीकरोति नवनीतम् , धनूस्याद् वंश: । न च भवति-सर्पिर्भवति , धनुर्भवति ॥१२८।।
व्यञ्जनस्यान्त ई ।१२।१२९॥ व्यञ्जनान्तस्य च्वौ बहुलमीरन्त: स्यात् । दृषदीभवति शिला । न च भवति-दृषद्भवति शिला ॥१२९।।
व्याप्तौ स्सात् ।।२।१३०॥ कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्व इति विषये सादि: सात् स्यात् , व्याप्तौ प्रागतत्तत्त्वस्य सर्वात्मना द्रव्येण सम्बन्धे गम्ये । अग्निसात् करोति काष्ठम् , अग्निसाद्भवति , अग्निसात् स्यात् ।।१३०।।
जातेः सम्पदा च ।७।२।१३१॥ कृ-भ्वस्तिभिः सम्पदा च योगे कृगकर्मणो भ्वस्तिसम्पत्कर्तुश्च प्रागतत्तत्त्वेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org