SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ४०५ पूर्वा-ऽवरा-ऽधरेभ्योऽसस्तातौ पुरवधश्चैषाम् ।।२।११५॥ एभ्यो दिग्-देश-कालार्थेभ्यः सि-डसि-ड्यन्तेभ्योऽस् अस्तात् च स्यात् , एषां च यथासंख्यं पुर् , अव् , अध् च । पुरः , अव: , अधः , पुरस्तात् , अवस्तात् , अधस्ताद् रम्यमागतो वासो वा ॥११५।। परा-ऽवरात् स्तात् ।७।२।११६॥ आभ्यां दिगाद्यर्थाभ्यां प्रथमाद्यन्ताभ्यां स्वार्थे स्तात् स्यात् । परस्तात् , अवरस्ताद् रम्यमागतो वासो वा ॥११६।। दक्षिणोत्तराच्चाऽतस् ।७।२।११७॥ आभ्यां परावराभ्यां च दिगाद्याभ्यां प्रथमाद्यन्ताभ्यां स्वार्थेऽतस् स्यात् । दक्षिणत: , उत्तरत: , परतः , अवरतो रम्यमागतो वासो वा ॥११७।। अधरा-ऽपराच्चाऽऽत् ।७।२।११८। आभ्यां दक्षिणोत्तराभ्यां च दिगाद्याभ्यां प्रथमाद्यन्ताभ्यामात् स्यात् । अधरात् , पश्चात् , दक्षिणात् , उत्तराद् रम्यमागतो वासो वा ॥११८।। __ वा दक्षिणात् प्रथमा-सप्तम्या आः ।।२।११९॥ अरमाद् दिग्-देशार्थात् सि-ड्यन्ताद् , आ वा स्यात् । दक्षिणा , दक्षिणत: दक्षिणाद् रम्यं वासो वा ॥११९।। आ-ऽऽही दूरे ।२।१२०॥ दूरदिग्-देशार्थात् सि-ड्यन्ताद् दक्षिणाद् आ , आहिश्च स्यात् । ग्रामाद् दक्षिणा , दक्षिणाहि रम्यं वासो वा ।।१२०।। वोत्तरात् ।१२।१२१॥ दिगाद्यर्थादस्मात् सि-ड्यन्ताद् आ , आहिश्च वा स्यात् । उत्तरा , उत्तराहि , उत्तरत: उत्तराद् रम्यं वासो वा ।।१२१।। ___ अदूरे एनः ।७२।१२२॥ दिक्शब्दाददूरदिगाद्यर्थात् सि-ड्यन्तादेनः स्यात् । पूर्वेणास्य रम्यं वसति वा ॥१२२॥ लुबञ्चेः ।।२।१२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy