SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं वैकाद् ध्यमञ् ।७।२।१०६॥ काटयन एकेति सङ्ख्यार्थात् प्रकारवृत्तेर्विचाले च गम्ये ध्यमञ् वा स्यात् । ऐकध्यम् , एकधा भुङ्क्ते ; अनेकमेकं करोति-ऐकध्यम् , एकधा वा करोति ।।१०६।। द्वि-वेर्धमत्रेधौ वा ।१२।१०७॥ आभ्यां प्रकारार्थाभ्यां विचाले च गम्ये एतौ वा स्याताम् । द्वैधम् ; त्रैधम् ; द्वैधा , त्रेधा ; द्विधा , त्रिधा , भुङ्क्ते ; एकराशिं द्वौ करोति-द्वैधम् , वैधम् ; द्वेधा , त्रेधा ; द्विधा , त्रिधा , करोति ।।१०७।। तद्वति धण् ।७।२।१०८॥ द्वि-त्रिभ्यां प्रकारवति विचालवति चार्थे धण् स्यात् । द्वैधानि , त्रैधानि ॥१०८|| वारे कृत्वस् ।१२।१०९॥ वारवृत्ते: संख्यार्थाद्वारवति धात्वर्थे कृत्वस् स्यात् । पञ्चकृत्वो भुते ।।१०९।। द्वि-त्रि-चतुरः सुच् ।७।२।११०॥ एभ्यो वारार्थेभ्यस्तद्वति सुच् स्यात् । द्विः , त्रिः , चतुर्भुते ।।११०॥ एकात् सकृच्चास्य ।१२।१११॥ अस्माद् वारार्थात् तद्वति सुच् स्यात् , सकृच्चाऽस्य । सकृद् भुङ्क्ते ।।१११।। बहोर्धाऽऽसन्ने ।७।२।११२॥ बहो: संख्यार्थाददूरवारार्थात् तद्वति धा स्यात् । बहुधा भुङ्क्ते ।।११२।। दिक्शब्दाद् दिग्-देश-कालेषु प्रथमा-पञ्चमी-सप्तम्याः ।१२।११३॥ दिशि दृष्टाद् दिगाद्यर्थात् सि-ङसि-ड्यन्तात् स्वार्थे धा स्यात् । प्राची दिग् रम्या प्रारम्यम् , प्राग् देश: कालो वा रम्य: प्राग्रम्यम् , प्राच्या दिशो देश-कालाभ्यां वा आगतः प्रागागत: , प्राच्यां दिशि देश-कालयोर्वा वास: प्राग्वासः ॥११३।। ऊर्ध्वाद् रि-रिष्टातौ उपश्चास्य ।।२।११४॥ अर्ध्वाद् दिग्-देश-कालार्थात् सि-ङसि-ड्यन्तादेतौ स्याताम् , उपश्चोर्ध्वस्य । उपरि , उपरिष्टाद् रम्यमागतो वासो वा ॥११४|| १. त्रिधा वा करोति पार ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy