________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
४०३
एकदा , अन्यदा ।।९५॥
___ सदा-ऽधुनेदानीं-तदानीमेतर्हि ।।२।९६॥ एते कालेऽर्थे निपात्याः ।।९६।।
सद्यो-ऽद्य-परेद्यव्यह्नि ।७।२।९७॥ एतेऽह्नि काले निपात्या: ॥९७||
पूर्वा-ऽपरा-ऽधरोत्तरा-ऽन्या-ऽन्यतरेतरादेद्युस् ।७।२।९८॥ एभ्यो ड्यन्तेभ्योऽह्नि कालेऽर्थे एद्युस् स्यात् । पूर्वेयुः , अपरेछुः , अधरेद्यु: उत्तरेयु: , अन्येद्युः , अन्यतरेयुः , इतरेयु: ।।९८||
उभयाद् द्युस् च ।७।२।९९॥ अतोऽहयर्थे घुसेद्युसौ स्याताम् । उभयद्युः , उभयेधुः ।।९९।।
ऐषमः-परुत्-परारि वर्षे ।।२।१००॥ एते वत्सरेऽर्थे निपात्याः ॥१०॥
अनद्यतने र्हिः ।।२।१०१॥ ड्यन्तादनद्यतनकालार्थाद् यथासम्भवं किमद्वयादिसर्वाद्यवैपुल्यबहो: हि: स्यात् । कर्हि , यर्हि , अमुर्हि , बहुर्हि ।।१०१।।
प्रकारे था ।७।२।१०२॥ प्रकारार्थात् सम्भवत्स्याद्यन्तात् किमद्वयादिसर्वाद्यवैपुल्यबहो: था स्यात्। सर्वथा , अन्यथा ।।१०२।।
कथमित्थम् ।७।२।१०३॥ एतौ प्रकारे निपात्यौ ॥१०३।।
सङ्ख्याया धा ।७।२।१०४॥ सङ्ख्यार्थात् प्रकारवृत्तेर्धा स्यात् । एकधा , कतिधा ॥१०४।।
विचाले च ।७।२।१०५॥ एकस्यानेकीभावोऽनेकस्य चैकीभावो विचाल: , तस्मिन् गम्ये सङ्ख्यार्थाद् धा वा स्यात् । एको राशिौ द्विधा क्रियते , अनेकमेकमेकधा वा करोति ।।१०५।। १. वा पामू०२ मध्ये नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org