________________
स्वोपज्ञलघुवृत्तिविभूषितं
वर्णाद् ब्रह्मचारिणि ।७।२।६९।। ___ वर्णाद् मत्वर्थे इन् स्यात् , चेद् ब्रह्मचार्यर्थः । वर्णी , ब्रह्मचारीत्यर्थः , वर्णवानन्य: ।।६९||
पुष्करादेर्देशे।७।२७०॥ एभ्यो मत्वर्थे इन्नेव स्यात् , देशेऽर्थे । पुष्करिणी , पद्मिनी । देश इति किम् ? पुष्करवान् हस्ती ।।७०।।
सूक्त-साम्नोरीयः ।७२।७१॥ सूक्ते साम्नि चार्थे मत्वर्थे ईय: स्यात् । अच्छावाकीयं सूक्तम् , यज्ञायज्ञीयं साम ||७१॥
लुब् वाऽध्याया-ऽनुवाके ।।२।७२॥ __ अनयोर्मत्वर्थे ईयस्य लुब् वा स्यात् , लुविधेरैवेयः । गर्दभाण्डः , गर्दभाण्डीयोऽध्यायोऽनुवाको वा ।।७२।।
विमुक्तादेरण् ।७।२।७३॥ एभ्यो मत्वर्थेऽध्याया-ऽनुवाकयोरण स्यात्। वैमुक्त: , दैवासुरोऽध्यायोऽनुवाको वा ॥७३॥
घोषदादेरकः ।।२।७४॥ . एभ्यो मत्वर्थेऽध्याया-ऽनुवाकेऽक: स्यात् । घोषदक: , गोषदकोऽध्यायादि: ॥७४||
प्रकारे जातीयर् ।७।२।७५॥ स्यन्तात् षष्ठयर्थेऽयं स्यात् , चेत् स्यन्तं प्रकारार्थम् , सामान्यस्य विशेषो विशेषान्तरानुयायी प्रकार: । पटुजातीय: ॥७५।।
कोऽण्वादेः ।७।२।७६॥ एभ्यस्तदस्य प्रकार इति विषये क: स्यात् । अणुकः , स्थूलक: पटः ।।७६।।
जीर्ण-गोमूत्रा-ऽवदात-सुरा-यव-कृष्णाच्छाल्याच्छादन-सुरा-ऽहिब्रीहि-तिले ७२।७७॥ १. देशेऽर्थे पार नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org