________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३९९
अस्माददन्ताद् मत्वर्थे इकण् स्यात् । ऐकगविकः ।।५८।।
सर्वादेरिन् ।७।२।५९॥ सर्वाऽऽदेरदन्तात् कर्मधारयाद् इन् स्यात् । सर्वधनी ।।५९।।
प्राणिस्थादस्वाङ्गाद् द्वन्द्व-रुग्-निन्द्यात् ।७।२।६०॥ प्राणिस्थोऽस्वाङ्गार्थोऽदन्तो यो द्वन्द्वो , यश्च रुग्वाची निन्द्यार्थश्व तस्माद् मत्वर्थे इन् स्यात् । कटकवलयिनी , कुष्ठी , ककुदावर्ती । प्राणिस्थादिति किम् ? पुष्पफलवान् वृक्षः । अस्वाङ्गादिति किम् ? स्तनकेशवती ॥६०॥
वाता-ऽतीसार-पिशाचात् कश्चान्तः ।।२।६१॥ एभ्यो मत्वर्थे इन् स्यात् , कश्चान्तः । वातकी , अतिसारकी , पिशाचकी ॥६१||
पूरणाद् वयसि ।७२।६२॥ पूरणप्रत्ययान्ताद् वयसि गम्ये मत्वर्थे इन्नेव स्यात् । पञ्चमी बाल: ।।६२||
सुखादेः ।७।२।६३॥ एभ्यो मत्वर्थे इन्नेव स्यात् । सुखी , दुःखी ॥६३।।
मालायाः क्षेपे ।।२।६४॥ मत्वर्थे इन्नेव स्यात् । माली । क्षेप इति किम् ? मालावान् ॥६४||
धर्म-शील-वर्णान्तात् ।७।२।६५॥ धर्माद्यन्ताद् मत्वर्थे इन्नेव स्यात् । मुनिधर्मी , यतिशीली , ब्राह्मणवर्णी ॥६५।।
बाहूर्वादेर्बलात् ।७।२।६६॥ बाह्रुपूर्वाद् बलाद् मत्वर्थे इन्नेव स्यात् । बाहुबली , ऊरुबली ॥६६।।
मन्-मा-ऽजादेर्नाम्नि ।६।२।६७॥ मन्नन्ताद् मान्तेभ्योऽलादेश्च मत्वर्थे इन्नेव स्यात् , नाम्नि । दामिनी , सोमिनी , अजिनी , कमलिनी ॥६७।।
हस्त-दन्त-कराज्जातौ ।७।२।६८॥ एभ्यो मत्वर्थे इन्नेव स्यात् , एतदन्तस्य जातावर्थे । हस्ती , दन्ती , करी ||६८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org