________________
स्वोपज्ञलघुवृत्तिविभूपितं
आमयाद् दीर्घश्व ।७।२।४८॥ अस्माद् मत्वर्थे विन् स्यात् , दीर्घश्चास्य । आमयावी , आमयवान् ।।४८।।
स्वान्मिन्नीशे ।७।२।४९॥ स्वाद् मत्वर्थे ईशे मिन् स्यात् , दीर्घश्वास्य । स्वामी , स्ववान् अन्य: ।।४९||
गोः ।२।५०॥ गोर्मत्वर्थे मिन् स्यात् । गोमी , गोमान् ।।५०।।
ऊर्जा विन्-वलावस् चान्तः ।७।२।५१॥ ऊर्जा मत्वर्थे विन्-वलौ स्याताम् , तद्योगे चोर्नोऽसन्तः । ऊर्जस्वी , ऊर्जस्वल: , ऊर्वान् ।।५१॥
तमिस्राऽर्णव-ज्योत्स्नाः ।७।२।५२॥ एते मत्वर्थे निपात्या: । तमिस्रा रात्रिः , तमिस्राणि गुहामुखानि , तमस्वान् , अर्णव: समुद्रः , ज्योत्स्ना चन्द्रप्रभा ।।५२।।
गुणादिभ्यो यः ।७।२।५३।। एभ्यो मत्वर्थे य: स्यात् । गुण्यो ना , हिम्यो गिरिः , हिमवान् ।।५३।।
रूपात् प्रशस्ता-ऽऽहतात् ।७।२।५४॥ प्रशस्तोपाधेराहतोपाधेश्च रूपाद् मत्वर्थे य: स्यात् । रूप्यो गौः , रूप्यं कार्षापणम् , रूपवान् अन्यः ॥५४||
पूर्णमासोऽण् ।७।२।५५॥ मत्वर्थे स्यात् । पौर्णमासी ॥५५॥
गोपूर्वादत इकण् ।७।२।५६॥ ___ गोपूर्वाददन्ताद् मत्वर्थे इकण् स्यात् । गौशतिक: । अत इति किम् ? गोविंशतिमान् ।।५६||
निष्कादेः शत-सहस्रात् ।७।२।५७॥ निष्काद्यवयवात् परं यत् शतं सहस्रं च तदन्ताद् मत्वर्थे इकण् स्यात् । नैष्कशतिक: , नैष्कसहस्रिकः । आदेरिति किम् ? स्वर्णनिष्कशतमस्यास्ति ।।५७||
एकादेः कर्मधारयात् ।७।२।५८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org