________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३९७
एभ्यो मत्वर्थे ईर: स्यात् । काण्डीर: , काण्डवान् ; आण्डीर: , भाण्डीर: ||३८।।
कच्छ्वा डुरः ॥७॥२॥३९॥ मत्वर्थे स्यात् । कच्छुर: , कच्छूमान् ।।३९।।
दन्तादुनतात् ।।२।४०॥ उन्नत्युपाधेर्दन्ताद् मत्वर्थे डुर: स्यात् । दन्तुरः । उन्नतादिति किम् ? दन्तवान्
॥४०॥
मेधा-रथानवेरः ॥२॥४१॥ __ आभ्यां मत्वर्थे इरो वा स्यात् । मेधिरः , मेधावान् , मेधावी ; रथिर: , रथिक: , रथी ॥४१॥
कृपा-हृदयादालुः ।७२।४२।। आभ्यां मत्वर्थे वाऽऽलुः स्यात् । कृपालुः , कृपावान् ; हृदयालुः , हृदयी
॥४२॥
केशाद् वः ॥२॥४३॥ मत्वर्थे वा स्यात् । केशव: , केशवान् , केशी ।।४।।
मण्यादिभ्यः ।।४४॥ एभ्यो मत्वर्थे व: स्यात् । मणिव: , मणिमान् ; हिरण्यवः , हिरण्यवान्
||४४||
हीनात् स्वाङ्गादः ।७।२।४५॥ हीनत्वोपाधे: स्वाङ्गार्थाद् मत्वर्थे अ: स्यात् । कर्णः । हीनादिति किम् ? कर्णवान् ॥४५॥
अभ्रादिभ्यः ।७।२।४६॥ एभ्यो मत्वर्थे अ: स्यात् । अभ्रं नभः , अर्शसो मैत्र: ॥४६।।
अस्-तपो-माया-मेधा-स्रजो विन् ।७२।४७॥ असन्तात् , तपसादेश्च मत्वर्थे विन् स्यात् । यशस्वी , यशस्वान् ; तपस्वी , मायावी , मेधावी , स्रग्वी ।।४७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org