________________
३९६
स्वोपज्ञलघुवृत्तिविभूषितं
लोम-पिच्छादेः शेलम् ।७।२।२८॥ लोमादेः पिच्छादेश्च मत्वर्थे यथासंख्यं श इलश्च स्यात् । लोमश: , लोमवान् , गिरिश: ; पिच्छिल: , पिच्छवान् , उरसिलः ॥२८॥
नोऽङ्गादेः ।७।२।२९॥ एभ्यो मत्वर्थे न: स्यात् । अङ्गना चार्वङ्गी स्त्री , पामनः , पामवान् ।।२९।।
शाकी-पलाली-दवा ह्रस्वश्च ।७।२।३०॥ एभ्यो मत्वर्थे न: स्यात् , तद्योगे चैषां ह्रस्व: । महच्छाकं पलालं च शाकी , पलाली ; दर्द्राधिः ; शाकिन: , शाकीमान् , पलालिन: , द्रुण: ॥३०॥
___विष्वचो विषुश्च ।।२।३१॥ अस्मात् मत्वर्थे न: स्यात् , विषुश्वास्य । विषुण: रविर्वायुर्वा , विष्वग्वान्
||३१||
लक्ष्म्या अनः ॥७॥२॥३२॥ मत्वर्थे स्यात् । लक्ष्मणः , लक्ष्मीवान् ।।३२।।
प्रज्ञा-श्रद्धा-ऽर्चा-वृत्तेर्णः ।७।२।३३॥ एभ्यो मत्वर्थे ण: स्यात् । प्राज्ञः , प्रज्ञावान् ; श्राद्धः , आर्चः , वातः ॥३३॥
ज्योत्स्नादिभ्योऽण् ।७।२॥३४॥ मत्वर्थे स्यात् । ज्योत्स्नी रात्रि: , तामिस्री ।।३४।।
सिकता-शर्करात् ।७२।३५॥ आभ्यां मत्वर्थेऽण् स्यात् । सैकत: , सिकतावान् ; शार्करः ॥३५॥
इलश्च देशे ॥२॥३६॥ सिकता-शर्कराभ्यां देशे मत्वर्थे इला-ऽणौ स्याताम् । सिकतिलः , सैकत: सिकतावान् ; शर्करिल: , शार्करो देश: ॥३६।।
द्यु-द्रोर्मः ॥७॥२॥३७॥ आभ्यां मत्वर्थे म: स्यात् । धुमः , द्रुमः ॥३७||
काण्डा-ऽऽण्ड-भाण्डादीरः ।७।२॥३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org