________________
श्रीसिद्धहैमर्चन्द्रशब्दानुशासनम्
४०१
एभ्यो यथासंख्यमेष्वर्थेषु तदस्य प्रकार इति विषये क: स्यात् । जीर्णक: शालि: , गोमूत्रकमाच्छादनम् , अवदातिका सुरा , सुरकोऽहि: , यवको व्रीहि: , कृष्णकास्तिलाः ॥७७||
__भूतपूर्वे प्चरट ।७।२।७८॥ भूतपूर्वार्थात् स्वार्थे प्चरट् स्यात् । आढ्यचरी ॥७८।।
गोष्ठादीनञ् ।७२।७९॥ भूतपूर्वे स्यात् । गौष्ठीनो देशः ।।७९।।
षष्ठया रूप्य-प्चरट् ।७१२।८०॥ षष्ठयन्ताद् भूतपूर्वेऽर्थे एतौ स्याताम् । मैत्ररूप्यो गौः , मैत्रचरः ||८०॥
व्याश्रये तसुः ।७।२।८१॥ षष्ठ्यन्ताद् नानापक्षाश्रये गम्ये तसुः स्यात् । देवा अर्जुनतोऽभवन् , रवि: कर्णतोऽभवत् ।।८१||
रोगात् प्रतीकारे ।।२।८२॥ षष्ठ्यन्ताद् रोगार्थादपनयने तसुः स्यात् । प्रवाहिकात: कुरु ॥८२।।
पर्यभेः सर्वोभये ।७।२।८३॥ ___ आभ्यां यथासङ्ख्यं सर्वोभयार्थाभ्यां तसुः स्यात् । परितः , अभितः । सर्वोभय इति किम् ? वृक्षं परि , अभि वा ।।८३॥
आधादिभ्यः ।।२।८४॥ एभ्य: सम्भवत्स्याद्यन्तेभ्यस्तसुः स्यात् । आदित: , मध्यत: ।।८४||
क्षेपा-ऽतिग्रहा-ऽव्यथेष्वकर्तुस्तृतीयायाः ।७।२।८५॥ टान्तादकत्रर्थात् क्षेपादिविषये तसुः स्यात् । वृत्ततः क्षिप्तोऽतिग्राह्यो न व्यथते वा । अकर्तुरिति किम् ? मैत्रेण क्षिप्तः ॥८५||
पाप-हीयमानेना।२।८६॥ आभ्यां योगे टान्तादकर्तुस्तसु: स्यात् । वृत्तत: पापो हीयते वा ।।८६।।
प्रतिना पञ्चम्याः ।७।२।८७॥ प्रतिना योगे पञ्चम्यन्तात् तसुर्वा स्यात् । अभिमन्युरर्जुनाद् अर्जुनतो वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org