________________
३९४
स्वोपज्ञलघुवृत्तिविभूषितं
प्रत्यर्थिकः , प्रत्यर्थी ; मतुर्न स्यात् । भावादिति किम् ? धनार्थाद् मतुरेव-अर्थवान्
|॥८॥
व्रीह्यर्थ-तुन्दादेरिलश्च ।।२।९॥ आभ्यां मत्वर्थे इल इकेनौ च स्युः । शालिल: , शालिकः , शाली , शालिमान् ; तुन्दिल: , तुन्दिक: , तुन्दी , तुन्दवान् ; उदरिल: , उदरिक: , उदरी , [उदरवान् ।।९।।
स्वाङ्गाद् विवृद्धात् ते ।२।१०॥ अस्मान्मत्वर्थे इलेकेना: स्युः । कर्णिल: , कर्णिक: , कर्णी , कर्णवान्
॥१०॥
वृन्दादारकः ।।२।११॥ मत्वर्थे स्यात् । वृन्दारकः , वृन्दवान् , [वृन्दी] ||११||
शृङ्गात् ।७२।१२॥ मत्वर्थे आरक: स्यात् । शृङ्गारकः , शृङ्गवान् , शृङ्गी ॥१२॥
फल-बच्चेिनः ।।२।१३॥ आभ्यां शृङ्गाच्च मत्वर्थे इन: स्यात् । फलिनः , फलवान् ; बर्हिण: , शृङ्गिण: ||१३||
मलादीमसश्च ।७।२।१४॥ मलान्मत्वर्थे ईमस इनश्च स्यात् । मलीमसः , मलिन: , मलवान् ।।१४||
__ मरुत्-पर्वणस्तः ।७२।१५॥ आभ्यां मत्वर्थे त: स्यात् । मरुत्त: , मरुत्वान् ; पर्वतः , पर्ववान् ।।१५।।
वलि-वटि-तुण्डेर्भः ॥७॥२॥१६॥ एभ्यो मत्वर्थे भ: स्यात् । वलिभः , वटिभः , तुण्डिभ: , वलिमान् ।।१६।।
ऊर्णा-ऽहं-शुभमो युस् ।७२।१७॥ एभ्यो मत्वर्थे यु: स्यात् । ऊर्णायु: , अहंयुः , शुभंयुः ॥१७||
__ कं-शंभ्यां युस्-ति-यस्-तु-त-व-भम् ।७।२।१८॥ १. [ ] पासं० २, J2सं०, P3सं० मध्ये ।। २. [ ] पासं०२ मध्ये ।। ३. शृङ्गी J2 P3 नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org