________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
[ द्वितीयः पादः ]
तदस्याऽस्त्यस्मिन्निति मतुः ।७।२।१॥ तदिति स्यन्ताद् , अस्येति षष्ठ्यर्थेऽस्मिन्निति ङयर्थे वा मतुः स्यात् , चेत् स्यन्तमस्तीति । गोमान् , वृक्षवान् गिरिः । अस्तीति किम् ? गावोऽस्यासन् । इते: प्रायो भूमादौ मत्वादयः ||१||
आ यात् ।७।२।२॥ रूपात् प्रशस्ताहतात् [७/२।५४] इति आ यविधेर्वक्ष्यमाणप्रकृतिभ्यो मतु: स्यात् , तदस्यास्ति तदस्मिन्नस्तीति विषये । कुमारीमान् , व्रीहिमान् ।।२।।
नावादेरिकः ।।२।३॥ एभ्यो मत्वर्थे इक: स्यात् । नाविकः , नौमान् । एवं कुमारिकः , कुमारीमान् ||३||
शिखादिभ्य इन् ।।२।४॥ एभ्यो मत्वर्थे इन् स्यात् । शिखी , शिखावान् ; माली ।।४।।
वीह्यादिभ्यस्तौ ।७।२।५॥ एभ्यो मत्वर्थे इकेनौ स्याताम् । व्रीहिकः , व्रीही , व्रीहिमान् ; मायिक: ; मायी , [मायावान् , मायावी] ||५||
अतोऽनेकस्वरात् ।७।२।६॥ अदन्तादनेकस्वराद् मत्वर्थे इकेनौ स्याताम् । दण्डिक: , दण्डी . दण्डवान् ; छत्रिक: , छत्री , छत्रवान् । अनेकस्वरादिति किम् ? खवान् ।।६।।
अशिरसोऽशीर्षश्च ।।२।७॥ अस्मान्मत्वर्थे इकेनौ स्याताम् , मतुश्च , तद्योगे चास्याऽशीर्षः । अशीर्षिक: , अशीर्षी , अशीर्षवान् ।।७।।
अर्था-ऽर्थान्ताद् भावात् ।१२।८॥ अर्थादर्थान्ताच्च भावार्थादेव मत्वर्थे इकेनावेव स्याताम् । अर्थिक: , अर्थी ;
१. [
] पासं०२ मध्ये एव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org