________________
३९२
स्वोपज्ञलघुवृत्तिविभूषितं
अभे: क: स्यात्, ईश्चाऽस्य वा तदन्तश्चेत् कमितरि । अभिक: , अभीकः ।।१८९।।
सोऽस्य मुख्यः ।७१।१९०॥ स इति स्यन्ताद् अस्येति षष्ठ्यर्थे कः स्यात् , स्यन्तं चेन्मुख्यार्थम् । देवदत्तक: सङ्घः ॥१९०।।
शृङ्खलकः करभे ।७।१९१॥ कान्तो निपात्य: । करभ उष्ट्रशिशुः ॥१९१।।
उदुत्सोरुन्मनसि ।।१९२॥ आभ्यामस्येति उन्मनस्यर्थे क: स्यात् । उत्क: , उत्सुकः ।।१९२।।
___ काल-हेतु-फलाद् रोगे।७।१।१९३॥ कालविशेषार्थेभ्यो हेत्वर्थेभ्य: फलार्थेभ्यश्च स्यन्तेभ्योऽस्येति रोगेऽर्थे कः स्यात् । द्वितीयको ज्वरः , पर्वतको रोगः , शीतको ज्वरः ॥१९३।।
प्रायोऽन्नमस्मिन् नाम्नि ।७१।१९४॥ स्यन्तादस्मिन्निति ड्यर्थे संज्ञाविषये कः स्यात् , स्यन्तं चेदन्नं प्रायेण । गुडापूपिका पौर्णमासी ।।१९४||
कुल्माषादण् ।७।१।१९५॥ अस्मात् स्यन्तात् प्रायोऽन्नमस्मिन्नित्यर्थेऽण् स्यात् , नाम्नि । कौल्माषी , पौर्णमासी ॥१९५॥
वटकादिन् ।११।१९६॥ अस्मात् स्यन्तात् प्रायोऽन्नमस्मिन्नित्यर्थे इन् स्यात् , नाम्नि । वटकिनी पौर्णमासी ।।१९६॥
साक्षाद् द्रष्टा ।।१९७॥ साक्षातो द्रष्टेत्यस्मिन्नर्थे इन् स्यात् , नाम्नि । साक्षी ।।१९७|| इति [आचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] सप्तमस्याध्यायस्य प्रथमः पाद: समाप्तः ।।७।१।।
लंब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः ।
तथापि तव सिद्धेन्द्र ! दातेत्युत्कन्धरं यश: ।।२५।। १. करभक उष्ट्रशिशुकः P3मू० । शृंखलक उष्ट्रशिशुकः P3सं० ॥ २. इति J2 नास्ति । ३. श्लोकोऽयं प्रा० मध्ये J2 टिप्पने बृहद्वृत्तौ च ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org