________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३९१
। गुणादिति किम् ? सस्येन परिजातं क्षेत्रम् ।।१७८||
धन-हिरण्ये कामे ।।१।१७९॥ आभ्यां ङयन्ताभ्यां कामेऽर्थे क: स्यात् । धनकः , हिरण्यको मैत्रस्य ।।१७९।।
स्वाङ्गेषु सक्ते।७।१।१८०॥ स्वाङ्गार्थेभ्यो ड्यन्तेभ्य: सक्तेऽर्थे क: स्यात् । नखक: , दन्तौष्ठकः ।।१८०।।
उदरे त्विकणाधूने ७१।१८१॥ अस्माद् ड्यन्तात् सक्ते आद्यूनेऽर्थे इकण् स्यात् । औदरिकः , उदरकोऽन्यः ||१८१॥
अंशं हारिणि ।।१।१८२॥ अंशादमन्ताद् हारिण्यर्थे क: स्यात् । अंशको दायादः ॥१८२॥
तत्रादचिरोद्धृते ।७।१।१८३॥ तन्त्रात् पञ्चम्यन्तादचिरोद्धृतेऽर्थे क: स्यात् । तन्त्रक: पटः ।।१८३।।
ब्राह्मणानाम्नि ७११८४॥ अस्माद् डस्यन्तादचिरोद्धृतेऽर्थे क: स्यात् , नाम्नि । ब्राह्मणको नाम देश: ॥१८४||
उष्णात् ।७।१८५॥ उष्णाद् डस्यन्तादचिरोद्धृतेऽर्थे क: स्यात् , नाम्नि। उष्णिका यवागू: ।।१८५।।
शीताच्च कारिणि ।७११८६॥ शीतोष्णाभ्यामर्थादमन्ताभ्यां कारिण्यर्थे क: स्यात् , नाम्नि । शीतकोऽलस: , उष्णको दक्षः ।।१८६॥
अधेरारूढे ।७।१।१८७॥ अधेरारूढार्थात् स्वार्थे क: स्यात् । अधिको द्रोण: खार्याः , अधिका खारी द्रोणेन ।।१८७||
अनोः कमितरि ।।१।१८८॥ अनो: क: स्यात् , तदन्तश्चेत् कमितरि । अनुक: ।।१८८||
अभेरीश्व वा ।७।१।१८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org