________________
३९०
स्वोपज्ञलघुवृत्तिविभूषितं
श्राद्धमद्यभुक्तमिकेनौ ।११।१६९॥ श्राद्धात् स्यन्तादद्यभुक्ताट्टार्थे कर्तरि एतौ स्याताम् । श्राद्धिक: , श्राद्धी ।।१६९।।
अनुपद्यन्वेष्टा ।७।१।१७०॥ एष इन्नन्तो निपात्यते , अन्वेष्टा चेत् । अनुपदी गवाम् ।।१७०।।
दाण्डाजिनिका-ऽऽयःशूलिक-पार्श्वकम् ।७।१।१७१॥ एते यथायोगमिकण-कान्ता निपात्या: , अन्वेष्टर्यर्थे । दाण्डाजिनिको दाम्भिक: , आयःशूलिकः तीक्ष्णोपायोऽर्थान्वेष्टा , पार्शकः अनृजूपाय: स एव ||१७||
क्षेत्रेऽन्यस्मिन् नाश्य इयः ।७।१।१७२॥ क्षेत्रान्निर्देशाद् ड्यन्तादन्योपाधिकान्नाश्येऽर्थे इय: स्यात् । क्षेत्रियो व्याधिः , जारश्च ।।१७२।।
छन्दोऽधीते श्रोत्रश्च वा १११७३॥ अस्मादमन्तादधीतेऽर्थे इयो वा स्यात् , तद्योगे चास्य श्रोत्रः । श्रोत्रियः , छान्दसः ।।१७३।।
इन्द्रियम् ।११।१७४॥ इन्द्राद् इयो निपात्य: । इन्द्रस्य लिङ्गादि इन्द्रियम् ।।१७४।।
तेन वित्ते चञ्चु-चणौ।७।१।१७५॥ तेनेति टान्ताद् वित्तेऽर्थे एतौ स्याताम् । विद्याचञ्चुः , केशचण: ।।१७५||
पूरणाद् ग्रन्थस्य ग्राहके को लुक् चाऽस्य ।७।१।१७६॥ पूरणप्रत्ययान्ताट्टान्ताद् ग्रन्थस्य ग्राहकेऽर्थे क: स्यात् , तद्योगे च पुरणार्थस्य लुक् । द्विकः शिष्यः ॥१७६।।
ग्रहणाद् वा ७१।१७७॥ गृह्यतेऽनेनेति ग्रहणं रूपादि , ग्रन्थस्य ग्रहणार्थात् पूरणप्रत्ययान्तात् कः स्वार्थे स्यात् , तद्योगे च पूरणार्थस्य लुग् वा । द्विकं द्वितीयकं वा ग्रन्थग्रहणम् ।।१७७||
सस्याद् गुणात् परिजाते ।७१।१७८॥ सस्याद् गुणार्थाट्टान्तात् परिजातेऽर्थे कः स्यात् । सस्यक: शालिर्देशो वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org