________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३८९
षष्टयादेरसङ्ख्यादेः ।।१।१५८॥ संख्या आदिरवयवो यस्य तद्वर्जात् षष्टयादे: संख्यापूरणे तमट् स्यात् । षष्टितमः , सप्ततितमः । असंख्यादेरिति किम् ? एकषष्टः ।।१५८।।
नो मट् ।७।१।१५९॥ असंख्यादेर्नान्ताया: संख्याया: संख्यापूरणे मट् स्यात् । पञ्चमी । असंख्यादेरित्येव- द्वादशः ॥१५९||
पित् तिथट् बहु-गण-पूग-संघात् ।।१।१६०॥ एभ्य: संख्यापूरणे तिथट् स्यात् पित् । बहुतिथी , गणतिथ: , पूगतिथ: , सङ्घतिथ: ।।१६०॥
अतोरिथट् ।।१६१॥ अत्वन्तात् संख्यापूरणे इथट् स्यात् पित् । इयतिथ: , तावतिथी ।।१६१।।
षट्-कति-कतिपयात् थट् ।७।१।१६२॥ एभ्य: संख्यापूरणे थट् स्यात् पित् । षष्ठी , कतिथ: , कतिपयथी ।।१६२।।
चतुरः ।७।१।१६३॥ अस्मात् संख्यापूरणे थट् स्यात् । चतुर्थी ।।१६३।।
येयौ च लुक् च ।७।१।१६४॥ चतुर: संख्यापूरणे एतौ स्याताम् , चस्य लुक् च । तुर्यः , तुरीय: ।।१६४||
द्वेस्तीयः ।७।१।१६५॥ द्वे: संख्यापूरणे तीय: स्यात् । द्वितीयः ।।१६५।।
त्रेस्तृ च ।७११६६॥ त्रे: संख्यापूरणे तीय: स्यात् , तद्योगे चास्य तृः । तृतीया ॥१६६।।
पूर्वमनेन सादेश्वेन् ।७।१।१६७॥ पूर्वमित्यमन्तात् केवलात् सपूर्वाच्चाऽनेनेति टार्थे कर्तरि इन् स्यात् । पूर्वी कटम् , पीतपूर्वी पयः ।।१६७।।
___ इष्टादेः ।७।१।१६८॥ एभ्योऽर्थात् स्यन्तेभ्यष्टार्थे कर्तरि इन् स्यात् । इष्टी यज्ञे , पूर्ती श्राद्धे ।।१६८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org