SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३८८ स्वोपज्ञलघुवृत्तिविभूषितं __ संख्यारूपं यन्मानं तदर्थेभ्य एभ्य: स्यन्तेभ्य: षष्ठ्यर्थे संख्येये डतिर्वा स्यात् । यति , यावन्त: ; एवं तति , तावन्तः ; कति , कियन्तः ॥१५०॥ . अवयवात् तयट ।७।।१५१॥ अवयववृत्तेः संख्यार्थात् स्यन्तात् षष्ठ्यर्थेऽवयविनि तयट् स्यात् । पञ्चतयो यमः ॥१५१।। द्वि-त्रिभ्यामयट् वा ।७१।१५२॥ आभ्यामवयवार्थाभ्यां स्यन्ताभ्यां षष्ठयर्थेऽयट् वा स्यात् । द्वयम् , द्वितयम् ; त्रयम् , त्रितयम् ।।१५२॥ व्यादेर्गुणान्मूल्य-क्रेये मयट् ।७।१।१५३॥ व्यादेर्गुणवृत्ते: स्यन्तात् षष्ठ्यर्थे मयट् स्यात् , व्यादिश्चेन्मूल्यार्थ: क्रयाओं वा । द्विमयमुदश्विद् यवानाम् , एवं त्रिमयम् ; द्विमया यवा उदश्वित: , एवं त्रिमया: । गुणादिति किम् ? द्वौ व्रीहि-यवौ मूल्यमस्य ।।१५३।। अधिकं तत्सङ्ख्यमस्मिन् शत-सहस्रे शति-शद्-दशान्ताया डः १७१११५४॥ स्यन्तात् शत्याद्यन्तात् संख्यार्थादस्मिन्निति ड्यर्थे , शत-सहस्रे च ड: स्यात् , स्यन्तं चेदधिकं शतादिसंख्यं च वस्तु स्यात् । विंशं योजनशतं योजनसहस्रं वा , एवं त्रिंशम् , एकादशम् । तत्संख्यमिति किम् ? विंशतिर्दण्डा अधिका अस्मिन् योजनशते ।।१५४।। सङ्ख्यापूरणे डट् ।७।१।१५५॥ संख्या पूर्यते येन तत्रार्थे संख्याया डट् स्यात् । एकादशी । संख्येति किम् ? एकादशानामुष्ट्रिकाणां पूरणो घटः ।।१५५।। विंशत्यादेर्वा तमः ।।१।१५६॥ अस्या: संख्यायाः संख्यापूरणे तमट् वा स्यात् । विंशतितमः , विंशः ; त्रिंशत्तमः , त्रिंशः ॥१५६॥ शतादि-मासा-ऽर्द्धमास-संवत्सरात् ।७।१।१५७॥ शतादे: संख्याया मासादेश्च संख्यापूरणे तमट् स्यात् । शततमी , सहस्रतमी , मासतमः , अर्धमासतमः , संवत्सरतमो दिनः ।।१५७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy