SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३८७ , हस्तिदघ्नम् , हस्तिद्वयसं जलम् , एवं पौरुषम् ।।१४१।। वोर्ध्वं दनट द्वयसट ७१।१४२॥ ऊर्ध्वं यत् प्रमाणं तदर्थात् स्यन्तात् षष्ठ्यर्थे वैतौ स्याताम् । ऊरुदनम् , ऊरुद्वयसम् , ऊरुमात्रं जलम् । ऊर्ध्वमिति किम् ? रज्जुमात्री भूः ॥१४२।। मानादसंशये लुप् ।७।१।१४३॥ मानार्थ एव साक्षाद् यः प्रमाणशब्दो हस्त-वितस्त्यादिर्न तु रज्ज्वादिः , तस्मात् प्रस्तुतस्य मात्रडादेरसंशये गम्ये लुप् स्यात् । हस्त: , वितस्ति: । मानादिति किम् ? ऊरुमात्रं जलम् । असंशय इति किम् ? शममात्रं स्यात् ।।१४३।। द्विगोः संशये च ।।१।१४४॥ मानान्ताद् द्विगो: संशयेऽसंशये च प्रस्तुतमात्रडादेर्लुप् स्यात् । द्विवितस्ति: , द्विप्रस्थ: स्यात् ॥१४४॥ मात्रट ।।२१४५॥ स्यन्तान्मानार्थात् षष्ठ्यर्थे मात्रट् स्यात् , संशये। प्रस्थमानं स्यात् ।।१४५।। शन्-शद्-विंशतेः ।७।१।१४६॥ शन्नन्ताच्छदन्ताच सङ्ख्यार्थाद् विंशतेश्च मानवृत्ते: स्यन्तात् षष्ठ्यर्थे मात्रट स्यात् , संशये । दशमात्रा: स्युः , एवं त्रिंशन्मात्रा: , विंशतिमात्रा: ।।१४६।। डिन् ।७१।१४७॥ शन्-शद्-विंशतिभ्य: स्यन्तेभ्यो मानार्थेभ्य: षष्ठ्यर्थे डिन् स्यात् । पञ्चदशी अर्धमास: , त्रिंशी मास: , विंशिनो भवनेन्द्राः ॥१४७|| इदं-किमोऽतुरिय-किय् चास्य ।।११४८॥ आभ्यां मानार्थाभ्यां षष्ठयर्थे मेयेऽतु: स्यात् , तद्योगे चानयोर्यथासंख्यमिकियौ स्याताम् । इयान् , कियान् पटः ॥१४८॥ यत्-तदेतदो डावादिः ।७।१।१४९।। एभ्य: स्यन्तेभ्यो मानार्थेभ्य: षष्ठ्यर्थे मेयेऽतुर्डावादिः स्यात् । यावान् , तावान् , एतावान् धान्यराशिः ।।१४९।। यत्-तत्-किमः सङ्ख्याया डतिर्वा ७१।१५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy